________________
तस्वसहः।
न साधनाभिधानेस्ति सपक्षादिविकल्पना।
शाने तु प्रविभज्यन्ते व्यवहाराय ते तथा ॥ १४३५ ॥ तथा व्युत्पन्नसपक्षादिव्यवहारो भटादिरपि यत्र धूमस्तत्र वहिघूमश्चात्रेत्येतावन्मात्रमुक्तोऽवधारितान्वयव्यतिरेकः सपक्षादिव्यवहारमन्तरेणैव वहिं प्रतिपद्यत' एव, तस्मान साधनकाले सपक्षादिव्यवस्थाऽस्ति । कुन तर्हि सपक्षादिव्यवहार इत्याह-शाने विति ॥ १४३५ ॥
यदि वा साधनामिधानकालेऽपि तद्व्यवस्था क्रियमाणा न विरोधिनीति प्रतिपादयति-प्रकृतेत्यादि।
प्रकृतार्थाश्रया साऽपि यदि वा न विरुध्यते।
न वाचकाण्ड एवाह परस्यापि हि साधनम् ॥ १४३६ ॥ यद्यपि साधनामिधानकाले प्रतिज्ञाप्रयोगो नास्ति, तथापि प्रकृतमर्थ साध्यधमिणं समाश्रित्य सा व्यवस्था क्रियमाणा न विरुध्यत एव । नचैतद्वक्तव्यं साधनकाले प्रकृत एवार्थो नास्तीति, यतो न, अकाण्ड एव–अप्रस्ताव एव, परस्यापिप्रतिज्ञाप्रयोगवादिनः, वादी साधनमाह ॥ १४३६ ॥
भवतु नाम जिज्ञासितविशेषो धर्मी प्रकृतः, तथापि सा क्रियमाणा व्यवस्था प्रकृतं धर्मिणमाश्रित्य कयं कर्त्तव्येत्याह-जिज्ञासितेति ।।
जिज्ञासितविशेषे हि वर्तनात्पक्षधर्मता।
सपक्षस्तत्समानत्वाद्विपक्षस्तदभावतः ॥ १४३७ ॥ सुबोधम् ॥ १४३७ ॥
उदाहरणापेक्षस्तथेत्युपसंहारो न तथेति वा साध्यस्योपनय इत्युपनयलक्षणम् । तत्रोपनयवचनं न साधनम् , उक्तहेत्वर्थप्रकाशकत्वात् , द्वितीयहेतुवचनवदित्याचार्यदिमागपादैः प्रमाणिते, भाविविक्तादयो हेत्वसिद्ध्यर्थमाहुः न खलु पक्षधर्मत्वं प्रतिज्ञानन्तरभाविना हेतुवचनेन प्रकाश्यते, कारणमात्राभिधानात् । अनित्यः शब्दो भवति कृतकत्वात् , तत्पुनः कृतकत्वं किं शब्देऽस्ति नास्तीति चेति, तस्यास्तित्वमु- । पनयात्रतीयते । अथवा प्रतिबिम्बनार्थमुपनयनं, पूर्व हि हेतुवचनेन निर्विशेष कृ. तकत्वं शब्दे निर्दिष्टं, तेन दृष्टान्ते प्रदर्शितसाध्याविनामावित्वस्य कृतकत्वस्योपनयेन प्रतिबिम्बनमुषनसा (मुपनयात् !) दयते-तथाच कृतका शब्द इति । तस्मा. द्विशेषयोतनाम पुनरकतेति । अत्राह-प्रतिज्ञेयादि ।