________________
पलिकासमेतः। प्रतिज्ञानभिधाने च कारणानभिधानतः । कर्तव्योपनयस्योक्तिर्न सद्भावप्रसिद्धये ॥१४३८ ॥ प्रागुक्त भावमात्रे च पश्चाद्या प्रकाशनात् ।
विवक्षितार्थसंसिद्धेविफलं प्रतिबिम्बकम् ॥ १४३९ ॥ सद्भावप्रसिद्धय इति । हेतोर्धर्मिणीति शेषः । अयमत्रार्थः-प्रतिज्ञाप्रयोगस्य यथोक्तया नीत्या निषिद्धत्वात्तत्समनन्तरभाविकृतकत्वादिकारणामिधानं नात्येव । ततश्च कारणामिधानपूर्वस्योपनयस्योक्तिर्न कर्त्तव्यैव । अथोपनयस्योक्तिः पक्षधर्मत्वप्रसाधनाय क्रियते, तदा कारणामिधानस्य फलमन्यद्वक्तव्यम् । तत्रैतत्स्यात्कारणत्वप्रतिपादनमेव फलमिति । तन्न । तेनैव तावत्प्रतिपादितेन कोऽर्थो यतोऽन्यथाऽपि साध्यसिद्धिर्भवत्येवेति दर्शितमेव । तस्मात्पक्षधर्मत्वप्रतिपादनं मुक्त्वा नान्यत्फलं शक्यते हेतुवचनस्य वक्तुम् । तदा प्रथमतस्तेनैव हेतुवचनेन पक्षधर्मत्वे प्रतिपादिते तत्प्रतिपादनायोपनयनमुपादीयमानं स्फुटतरमेव पुनरुक्तता प्रकाशयतीति कुतोऽसिदता हेतोः । प्रतिबिम्बनमपि व्यर्थमेव, यतस्तस्मिन्पक्षधर्ममाने हेतुवचनेन प्रागुक्ते सति साध्यधर्मेण च तस्य व्याप्तौ कथितायां विवक्षितार्थसंसिद्धेच्यमानं स्फुटतरमेव पुनरुक्ततामावहतीति कुतोऽत्राप्यसिद्धता हेतोः ॥ १४३८ ॥ १४३९ ॥
तत्र हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनमिति निगमनलक्षणम् । तस्मादनिस इत्यादौ तस्मादित्यनेन हेतोः सामर्थ्यमुदाहरणप्रसिद्धमपदिश्य यत्प्रतिज्ञार्थ पुनवचनं क्रियते तभिगमनम् । निगम्यन्तेऽनेन प्रतिज्ञाहेतूदाहरणोपनया एकार्थवया समय॑न्ते सम्बध्यन्त इति निगमनम् । तत्र प्रतिज्ञाप्रयोग एव तावन्नास्ति, कुतस्तदनुवादात्मकस्य निगमनस्येत्यतो निगमनं न साधनावयवः । तत्राचार्यदिङ्गागपादै. रुक्तम्-निगमनं पुनरुक्तत्वादेव न साधनमिति । अत्रोद्योतकरादयः प्राहुः-- पौनरुक्यमत्र, यस्मात्साध्यनिर्देशः प्रतिज्ञा, निगमनं तु सिद्धनिर्देशः, । न च निगमनेन विना सिद्धिरस्ति । तथाहि-तेन विना तदन्यावयवोक्तावपि शङ्का न निवर्त्तते किमनित्यः शब्द इति, अतस्तदाशङ्कानिवृत्त्यर्थ वाच्यं निगमनं पृथगिति । तदत्राह-त्रिरूपेत्यादि।
त्रिरूपहेतुनिर्देशसामर्थ्यादेव सिद्धितः। ''न विपर्ययशकास्ति व्यर्थं निगमनं ततः॥ १४४०॥ ..