Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 31
________________ मीमांसा ] सूत्र १-१-१, त्मकैः पञ्चभिरध्यायैः शास्त्रमेतदरचयदाचार्यः । तस्य च प्रेक्षावत्प्रवृत्त्यङ्गमभिधेयमभिधातुमिदमादिसूत्रम् ॥ ॥अथ प्रमाणमीमांसा ॥१-१-१॥ २ल अथेत्यस्याधिकारार्थत्वाच्छास्त्रेणाधिक्रियमाणस्य प्रस्तूयमानस्य प्रमाणस्याभिधानात्सकलशास्त्रतात्पर्यव्याख्यानेन प्रेक्षावन्तो बाधिताःप्रवर्तिताश्च भवन्ति । आनन्तार्थो वाऽथशब्दः शब्दकाव्यछन्दोनु-: शासनेभ्योऽनन्तरं प्रमाणं मीमांस्यत इत्यर्थः । अनेन शब्दानुशासनादिभिरस्यैककर्तृकत्वमाह । अधिकारार्थस्य चाथशब्दस्यान्यार्थनीयमानकुसुमदामजलकुम्भादेर्दर्शनमिव श्रवणं मङ्गलायापि कल्पत इति, मङ्गले च सति परिपन्थिविघ्नविघाताम्रक्षेपेण शास्त्रसिद्धिरायुष्म च्छ्रोतृकता च भवति । परमेष्ठिनमस्कारादिकं तु मङ्गलं कृतमपि न निवेशितं लाघवार्थिना शास्त्रकारणोत । १ ' शास्त्रं ग्रन्थनिदेशयोः' इति अनेकार्थसंग्रहे २ कां. श्लो. ४५१. २ प्रेक्षावन्तो विचारिणः। ३ हेमचन्द्राचार्यैरष्टाध्यायात्मकं संस्कृतप्राकृतभाषाव्याकरणं सूत्रर्निबद्धम् । तत्र सप्ताध्यायाः संस्कृतव्याकरण उपयुक्ताः । अष्टमोऽध्यायः प्राकृतव्याकरणे । तथा च काव्यानुशासनमष्टाध्यायात्मकमेव साहित्यशास्त्रसर्वविषयनिदर्शकं निबद्धम् । एवमेव छन्दःशास्त्रेऽपि ग्रन्थोऽष्टाध्यायात्मकः । तत्र प्रथमः संज्ञाध्यायः । द्वितीयः समवृत्तव्यावर्णनाध्यायः । तृतीयोऽर्धसमविषमवैतालीयमात्रासमकादिव्यावर्णनाध्यायः । चतुर्थ आर्यागलितकखञ्जकशीर्षकव्यावर्णनाध्यायः । पञ्चम उत्साहादिप्रतिपादनाध्यायः । षष्ठः खदिचतुष्पदीशासनाध्यायः । सप्तमो द्विपदीव्यावर्णनाध्यायः । अष्टमः प्रस्तारादिव्यावर्णनाध्यायः । अत्रानुशासनत्रये स्वोपज्ञवृत्तिरप्यस्ति । ४ अक्षेपेण-कालविलम्बाभावेन । - ५ तथाचोक्तं पातञ्जलमहाभाष्ये १।१।१ इत्यत्र ' मङ्गलादीनि हि शास्त्राणि प्रथन्ते। वीरपुरुषकाणि च भवन्त्यायुष्मत्पुरुषकाणि च । अध्येतारश्च वृद्धियुक्ता यथा स्युरिति । ६ परमे पदे तिष्ठतीति परमेष्ठिः, अर्हत्सिद्धाचार्योपाध्यायसर्वसाधुषु पंचसु प्रसिद्धः ।

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136