Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 133
________________ मीमांसा ] १०५ सूत्र २-१-३४ मिति नेष्यते" अत्र हि स्वपक्षं साधयन् वादिप्रतिवादिनोरन्यतरोऽसाधनाङ्गवचनाददोषोद्भावनाद्वा परं निगृह्णाति । प्रथमपक्षे स्वपक्षसिध्द्यैवास्य पराजयादन्योद्भावनं व्यर्थम् । द्वितीयपक्षे साधनाङ्गवचनाद्युद्भावनोपि न कस्यचिज्जयः । पक्षसिद्धरुभयोरभावात् । यच्चास्य व्याख्यानं साधनं सिद्धिस्तदङ्ग त्रिरूपं लिङ्गं तस्यावचनं तुष्णीम्भावो यत्किंचिद्भाषणं वा साधनस्य वा त्रिरूपलिङ्गस्याङ्गं समर्थनम् । विपक्षे बाधकप्रमाणोपदर्शनरूपं तस्यावचनं वादिनो निग्रहस्थानमिति तत्पञ्चावयवप्रयोगवादिनोऽपि समानम् । शक्यं हि तेनाप्येवं वक्तुं सिध्यङ्गस्य पञ्चावयवप्रयोगस्यावचनात् सौगतस्य वादिनो निग्रहः । ननु चास्य तदवचनेऽपि निग्रहः प्रतिज्ञानिगमनयोः पक्षधर्मापक्षधर्मोपसंहारसामर्थेन गम्यमानत्वाद्गम्यमानयोश्च वचने पुनरुक्तत्वानुषङ्गात् । तत्प्रयोगेऽपि हेतुप्रयोगमन्तरेण साध्यार्थाप्रसिद्धरित्यप्यसत् । पक्षधर्मोपसंहारस्याप्येवं वचनानुषगात् । अथ सामर्थ्याद्गम्यमानस्यापि यत्त्सत्तत्सर्व क्षाणिकं यथा घटः संश्च शब्द इति पक्षधर्मोपसंहारस्य वचनहेतोरपक्षधर्मत्वे त्वसिद्धत्वव्यवच्छेदार्थम्, तर्हि साध्याधारसन्देहापनोदार्थ गम्यमानाया अपि प्रतिज्ञायाः प्रतिज्ञाहेतूदाहरणोपनयानामेकार्थप्रतिप्रदर्शनार्थ निगमनस्य वचनं किं न स्यात् । नहि प्रतिज्ञादीनामकार्थत्वोपदर्शनमन्तरेण सङ्गतत्वं घटते भिन्ननिषयप्रतिज्ञादिवत् । ननु प्रतिज्ञातः साध्यसिद्धौ हेत्वादिवचनमनर्थकमेव स्यात् अन्यथा नास्याः साधनाङ्गतेति चेत् । तर्हि भवतोऽपि हेतुतः साध्यसिद्धौ दृष्टान्तोऽनर्थकः स्यात् । अन्यथा नास्य साधनाङ्गतेति समानमू । ननु साध्यसाधनयोर्व्याप्तिपदर्शनार्थत्वात नानर्थको दृष्टान्तस्तत्र । तदप्रदर्शने हेतोरगमकत्वादित्यप्ययुक्तम् । . १ 'एकार्थत्व' इति क्वचित्पाठः ।

Loading...

Page Navigation
1 ... 131 132 133 134 135 136