Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
सूत्र २-१-३४
१०४ - [ प्रमाण निग्रहोपपत्त्यावश्यं नोदनीय इदं ते निग्रहस्थानमुपनतमतो निगृहीतोऽसीत्येवं वचनीयस्तमुपेक्ष्य न निगृह्णाति यः स पर्यनुयोज्योपेक्षणे निगृह्यते । एतच्च कस्य निग्रह इति अनुयुक्तया परिषदोद्भावनीयं न त्वसावात्मनो दोषं विवृणुयादहं निग्रा ह्यस्त्वयोपेक्षित इति । एतदप्यज्ञानान्न भिद्यते १९ । “ अनिग्रहस्थाने निग्रहस्थानानुयोगो निरनुयोज्यानुयोगो” नाम निग्रहस्थानं भवति । उपपन्नवादिनमप्रमादिनमनिप्रहाहमापि निगृहीतोऽसीति यो ब्रूयात्स एवाभूतदोषोद्भावनान्निगृह्यते । एतदपि नाज्ञानाद्यतिरिच्यते २० । “ सिद्धान्तमभ्युपेत्यानियमात्कथाप्रसङ्गाऽपसिद्धान्तो" नाम निग्रहस्थानं भवति । यः प्रथमं कश्चित् सिद्धान्तमभ्युपगम्य कथामुपक्रमते । तत्र च सिषाधयिषितार्थसाधनाय परोपालम्भाय वा सिद्धान्तविरुद्धमाभिधत्ते सोऽपसिद्धान्तेन निगृह्यते । एतदपि प्रतिवादिनः प्रतिपक्षसाधने सत्येव निग्रहस्थान नान्यथेति २१ । “ हेत्वाभासाश्च यथोक्ताः” असिद्धविरुद्धादयो निग्रहस्थानम् । अत्रापि विरुद्धहेतूद्भावनेन प्रतिपक्षसिद्धेनिग्रहाधिकरणत्वं युक्तमासिद्धायुद्भावने तुप्रतिवादिना प्रतिपक्षसाधने कृते तद्युक्तं नान्यथेति २२ ॥ तदेवमक्षपादोपदिष्टं पराजयाधिकरणं परीक्ष्य सौगतागामितं तत्परीक्ष्यते ॥ नाप्यसाधनाङ्गवचनादोषोद्भावने स्वपक्षस्यासिद्धिरेव पराजयो नासाधनाङ्गवचनमदोषोद्भावनं च । यथाह धर्मकीर्तिः, " असाध नाङ्गवचनमदोषोद्भावनं द्वयोः निग्रहस्थानमन्यत्तु न युक्त
१ गौतमसूत्र ५-२-२२। २ “ नाभियो” इति पाठः । गौतमसूत्र ५-२-२२ । ३ गौतमसूत्र ५-२-२३ । ४ गौतमसूत्र ५-२-२४ ।

Page Navigation
1 ... 130 131 132 133 134 135 136