Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 130
________________ सूत्र २-१-३४ [प्रमाण न्युच्चै रुदत्यतिरोदिति कृतपरिकरं स्वेदोद्गारि प्रधावति धावति । गुणसमुदितं दोषापेतं प्रणिन्दति निन्दति, धनलवपरिक्रीतं यन्त्रं प्रनृत्यति नृत्यति "॥१॥ इत्यादि । ततः स्पष्टार्थवाचकैस्तैरवान्यैर्वा शब्दैः सभ्याः प्रतिपादनीयाः । तदप्रतिपादकशब्दानां तु सकृत् पुनः पुनर्वाभिधानं निरर्थकं न तु पुनरुक्तमिति । यदप्यादापन्नस्य स्वशब्देन पूनर्वचनं पुनरुक्तमुक्तं । यथाऽसत्सु मेघेषु वृष्टिर्न भवतीत्युक्तेऽर्थादापद्यते सत्सु भवतीति तत्कण्ठेन कथ्यमानं पुनरुक्तं भवति । अर्थगत्यर्थे हि शब्दप्रयोगे प्रतीतेऽर्थे किं तेनेति । एतदपि प्रतिपन्नार्थप्रतिपादकत्वेन वैयर्थ्यानिग्रहस्थानं नान्यथा। तथा चेदं निरर्थकान विशेष्यतोत १३ । पर्षदा विदितस्य वादिना त्रिरभिहितस्यापि यदप्रत्युच्चारणं तदननुभाषणं नामनिग्रहस्थानं भवति अप्रत्युच्चारयत् किमाश्रयं दूषणमाभिदधतीत्यत्रापि किं सर्वस्य वादिनाक्तस्याननुभाषणमुत प्रयत्नानान्तरीयिका साध्यसिद्धिस्तस्येति । तत्रायः पक्षोऽयुक्तः परोक्तमशेषमप्रत्युच्चास्यतोऽपि दूषणवचनाव्याघातात्। यथा सर्वमानत्यं सत्त्वादित्युक्ते सत्त्वादित्ययं हेतुर्विरुद्ध इति हेतुमेवाचार्य। विरुद्धतोद्भाव्यते क्षणक्षयायेकान्ते सर्वथार्थक्रियाविरोधात्सत्त्वानुपपत्तेरिति समर्थ्यते च । तावतापरोक्तहेतोर्दूषणात्किमन्योच्चारणेन । अतो यन्नांतरीयिका साध्यासद्धिस्तस्यैवाप्रत्युच्चारणमननुभाषणं प्रतिपत्तव्यम् । अथैवं दूषयितुम। समर्थः शास्त्रार्थपरिज्ञानविशेषविकलत्त्वात्तदायमुत्तराप्रतिपत्तेरेव तिरस्क्रियते न पुनरननुभाषणादिति १४ । पैर्षदा विज्ञातस्यापि वादिवाक्यार्थस्य प्रतिवादिनो यदज्ञानं तदज्ञानं नाम निग्रहस्थानं भवति। १ " विज्ञातस्य परिषदा त्रिरभिहितस्याप्यप्रेत्यु (नु) चारणमननुभाषणम्” । गौतमसूत्र ५-२-१६ । २ " अविज्ञानं चाज्ञानम् ” । गौतमसूत्र ५-२-१७ ।

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136