Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
सूत्र २-१-३४
१०० - [प्रमाण पदार्थस्य त्याद्यन्तपदार्थस्य च। स्त्यायन्तपदेनाभिव्यक्तेः केवलस्याप्रयोगः पदान्तरापेक्षस्य पदस्य सार्थकत्वं प्रकृत्यपेक्षस्य प्रत्ययस्य तदपेक्षस्य च प्रकृत्यादिवर्णस्य सागानमिति ९। प्रतिज्ञाहेतूदाहरणोपनयनिगमनवचनक्रममुल्लङ्यावयवविपर्यासेन प्रयुज्यमानमनुमानवाक्यमप्राप्तकालं नाम निग्रहस्थानं भवति स्वप्रातिपत्तिवत् परप्रतिपत्तेजनने परार्थानुमाने क्रमस्याप्यङ्गत्वात् एतदप्यपेशलम् । प्रेक्षावतां प्रतिपतृणामवयवक्रमनियम विनाप्यर्थप्रतिपत्त्युपलम्भात् । ननु यथापि शब्दाच्छ्रताच्छब्दस्मरणं ततोऽर्थप्रत्यय इति शब्दादेवार्थप्रत्ययः परम्परया तथा प्रतिज्ञाद्यवयवव्युत्क्रमात् तत्क्रमस्मरणं ततो वाक्यार्थप्रत्ययो न पुनस्तव्युत्क्रमात् । इत्यप्यसारम् । एवंविधप्रतीत्यभावात् यस्माद्धि शब्दादुच्चरिताद्यत्रार्थे प्रतीतिः स एव तस्य वाचको नान्योऽन्यथा शब्दात्तत्क्रमाचापशब्दे तद्व्यतिक्रमे च स्मरणं ततोऽर्थप्रतीतिरित्यपि वक्तुं शक्येत । एवं शब्दान्वाख्यानवैयमिति चेत् । नैवम् । वादिनोऽनिष्टगात्रापादनात् । अपशब्देऽपि चान्वाख्यानस्योपंलम्भात् । संस्कृताच्छब्दात्सत्यात् धर्मोऽन्यस्मादधर्म इति नियमे चान्यधर्माधर्मोपायानुष्ठानवैयर्थ्य धर्माधर्मयोश्चाप्रतिनियमप्रसङ्गोऽधार्मिके धार्मिके च तच्छब्दोपलम्भात् भवतु वा तत्क्रमादर्थप्रतीतिस्तथाप्यर्थप्रत्ययः क्रमेण स्थितो येन वाक्येन व्युत्क्रम्यते तन्निरर्थकं न त्वप्राप्तकालमिति १० । पञ्चावयवे वाक्ये प्रयोक्तव्ये तदन्यतमेनाप्यवयवेन हीनं न्यूनं नाम निग्रहस्थानं भवति साधनाभावे साध्यसिद्धेरभावात् प्रतिज्ञादीनां च पश्चानामाप साधनत्वादित्यप्यसमीचीनम् । पञ्चावयवप्रयोगमन्तरेणापि साध्यसिद्धरभिधानात् । प्रतिज्ञा हेतुप्रयोगमन्तरेणैव तत्सिद्धे१ क्रियापदस्य । २ " अवयवविपर्यासवचनमप्राप्तकालम् ” । गौतमसूत्र ५-२-११ । ३ " हनिमन्यतमेनाप्यवयवेन न्यूनम् "। गौतमसूत्र ५-२-१२ ।

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136