Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
मीमांसा ]
९९
सूत्र २-१-३४
पुनर्निग्रहः । परस्य पक्षसिद्धेरभावात् । द्रुतोच्चारेप्यनयोः कथंचित् ज्ञानं सम्भवत्येव । सिद्धान्तवेदित्वात् । साध्यानुपयोगिनि तु वादिनः प्रलापमात्रे तयोरविज्ञानं नाविज्ञातार्थं वर्णक्रमनिर्देशवत् । . ततो नेदमविज्ञातार्थं निरर्थकाद्भिद्यत इति ८ । पूर्वापरासङ्गतपदसमूहप्रयोगादप्रतिष्ठितवाक्यार्थमपार्थकं नाम निग्रहस्थानं भवति यथा दशै दाडिमानि षडपूपा इत्यादि, एतदपि निरर्थकान्न भिद्यते । यथैव fe aasaarat वर्णानां नैरर्थक्यं तथात्र पदानामिति । यदि पुनः पदनैरर्थक्यं वर्णनैरर्थक्यादन्यत्वान्निग्रहस्थानान्तरं तर्हि वाक्यनैरर्थक्यस्याप्याभ्यामन्यत्वान्निग्रहस्थानान्तरत्वं स्यात् । पदवत्पौर्वापयेणाप्रयुज्यमानानां वाक्यानामप्यनेकधोपलभ्यात् “शङ्खः कदल्यां कदली च भेर्यां तस्यां च भेर्यां सुमहद्विमानम् । तच्छभेरीकदलीविमानमुन्मत्तगंगप्रतिमं बभूव ॥ " इत्यादिवत् । यदि पुनः पदनैरर्थक्यमेव वाक्यनैरर्थक्यं पदसमुदायात्मकत्वात् तस्य । तर्हि वर्णनैरर्थक्यमेव पदनैरर्थक्यं स्याद्वर्णसमुदायात्मकत्वात् तस्य । वर्णानां सर्वत्र निरर्थकत्वात् पदस्यापि तत्प्रसङ्गश्वेतर्हि पदस्यापि निरर्थकत्वात् तत्समुदायात्मनो वाक्यस्यापि नैरर्थ - क्यानुषङ्गः । पदस्यार्थवत्त्वेन पदार्थापेक्षया तस्यापि तदस्तु प्रकृतिप्रत्ययादिवत् न खलु प्रकृतिः केवला पदं प्रत्ययो वा । नाप्यनयोरनर्थकत्वम् अभिव्यक्तार्थाभावादनर्थकत्वे पदस्या पितत्स्यात् ॥ यथैव हि प्रकृत्यर्थः प्रत्ययेनाभिव्यज्यते प्रत्ययार्थश्च प्रकृत्या । तयोः केवलयोरप्रयोगात्तथा देवदत्तस्तिष्ठतीत्यादिप्रयोगे स्याद्यन्त
१ ' पौर्वापर्यांयोगादप्रतिसंबद्धार्थकम् ' । गौतमसूत्र ५ - २ - १० ।
२ पातञ्जलमहाभाष्ये १-१-१ ।
३ ' वर्णस्यापि ' इति क्वचित्पाठः ।
४ नामपदस्य ।

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136