Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 125
________________ मीमांसा ] सूत्र २-१-३४ स्यानुपलाब्धः । अथ रूपादिभ्योऽर्थान्तरस्यानुपलब्धेरिति सोऽयं प्रतिज्ञाहत्वोर्विरोधो यदि गुणव्यतिरिक्तं द्रव्यं कथं रूपादिभ्योऽर्थान्तरस्यानुपलब्धिः । अथ रूपादिभ्योऽर्थान्तरस्यानुपलब्धिः कथं गुणव्यतिरिक्तं द्रव्यमिति तदयं प्रतिज्ञाविरुद्धाभिधानात् पराजीयते। तदेतदसङ्गतम् । यतो हेतुना प्रतिज्ञायाः प्रतिज्ञात्वे निरस्ते प्रकारान्तरतः प्रतिज्ञाहानिरवेयमुक्ता स्यात् । हेतुदोषो वा विरुद्धालक्षणो न प्रतिज्ञादोष इति ३ । पक्षसाधने परेण दृषिते तदुद्धरणाशक्त्या प्रतिज्ञामेव निलवानस्य प्रतिज्ञासंन्यासो नाम निग्रहस्थानं भवति । यथाजनित्यः शब्दः ऐन्द्रियकत्वादित्युक्ते तथैव सामान्येनानैकान्तिकतायामुद्भावितायां याद ब्रूयात्क एवमाहानित्यः शब्द इति प्रतिज्ञासंन्यासात् पराजितो भवतीति । एतदपि प्रतिज्ञाहानितो न भिद्यते हेतोरनैकान्तिकत्वोपलम्भेनात्रापि प्रतिज्ञायाः परित्यागा. विशेषात् ४ । अविशेषाभिहिते हेतो प्रतिषिद्धे तद्विशेषणमभिदधतो हेत्वन्तरं नाम निग्रहस्थानं भवति । तस्मिन्नेव प्रयोगे तथैव सामान्यस्य व्यभिचारेण दृषिते जातिमत्वे सतीत्यादिविशेषणमुपाददानो हेत्वन्तरेण निगृहीतो भवति । इदमप्यतिप्रसृतं यतोऽविशेषोक्ते दृष्टान्ते उपनये निगमने वा प्रतिषिद्धे विशेषामिच्छतो दृष्टान्ताद्यन्तरमपि निग्रहस्थानान्तरमनुषज्येत तत्तत्राप्याक्षेपसमाधानानां समानत्वादिति ५ कृतार्थादर्थान्तरं तदनौपयिकमभिदधतोऽर्थान्तरं नाम निग्रहस्थानं भवति । यथाऽनित्यः शब्द कृतकत्वादिति हेतुः। हेतुरिति हिनोतेर्धातोस्तुप्रत्यये कदन्तं पदम् पदं च नामाख्यातनिपातोपसर्गा इति प्रत्ययनामादीनि व्याचक्षाणोऽर्थान्तरेण निगृह्यते । १ ‘पक्षप्रतिषेधे प्रतिज्ञातार्थापनयनं प्रतिज्ञासंन्यास :' इति गौतमसूत्र ५-२-५॥ २ 'अविशेषोक्ते हेतौ प्रतिषिद्धे विशेषमिच्छतो हेत्वन्तरम्' । गौतमसूत्र ५-२-६ । ३ 'प्रकृतादादप्रतिसंबंधार्थमर्थान्तरम्' । गौतमसूत्र ५-२-७।

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136