Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 134
________________ सूत्र २-१-३४ १०६ [प्रमाण सर्वानित्यत्वसाधने सत्त्वादेदृष्टान्तासम्भवतोऽगमकत्वानुषङ्गात्। विपक्षव्यावृत्त्या सत्त्वादेर्गमकत्वे वा सर्वत्रापि हेतोस्तथैव गमकत्वप्रसङ्गात् दृष्टान्तोऽनर्थक एव स्यात् । विपक्षव्यावृत्त्या च हेतुं समर्थयन् कथं प्रतिज्ञा प्रतिक्षिपेत् । तस्याश्वानभिधाने क हेतुः साध्यं वा वर्तते। गम्यमाने प्रतिज्ञाविषय एवेति चेत् । तर्हि गम्यमानस्यैव हेतोरपि समर्थनं स्यान्न तूक्तस्य । अथ गम्यमानस्यापि हेतोर्मन्दमतिप्रतिपत्त्यर्थं वचनम् । तथा प्रतिज्ञावचने कोऽपरितोषः। यच्चेदमसाधनागमित्यस्य व्याख्यानान्तरं साधर्म्यण वचने वैधर्म्यवचनं वैधम्र्येण च प्रयोगे साधर्म्यवचनं गम्यमानत्वात् पुनरुक्तमतो न साधनाङ्गमित्यप्यसाम्पतम् । यतः सम्यक्साधनसामर्थेन स्वपक्षं साधयतो वादिनो निग्रहः स्यादसाधयतो वा प्रथमप्रत्यक्षेण साध्यसिद्धप्रतिबन्धिवचनाधिक्योपालम्भमात्रेणास्य निग्रहोऽविरोधात् । नन्वेवं नाटकादिघोषणतोऽप्यस्य निग्रहो न स्यात् । सत्यमेतत् । स्वसाध्यं प्रसाध्य नृत्यतोऽपि दोषाभावाल्लोकवत् । अन्यथा ताम्बूलभक्षणभ्रूक्षेपखाट्कृतहस्तास्फालनादिभ्योऽपि सत्यसाधनवादिनोऽपि निग्रहः स्यात् । अथ स्वपक्षं प्रसाधयतोऽस्य ततो निग्रहः। नन्वत्रापि किं प्रतिवादिना स्वपक्षे साधिते वादिनो वचनाधिक्योपालम्भो निग्रहो लक्ष्येतासाधिते वा । प्रथमपक्षे स्वपक्षसिध्द्यैवास्य निग्रहाद्वचनाधिक्योद्भावनमनर्थकम् । तस्मिन् सत्यपि पक्षसिद्धिमन्तरेण जयायोगात्। द्वितीयपक्षे तु युगपद्वादिप्रतिवादिनोः पराजयप्रसङ्गो वा स्यात्। स्वपक्षसिद्धेरभावाविशेषात् । ननुन स्वपक्षसिध्यसिध्धिनिबन्धनौ जयपराजयौ । तयोर्जानाज्ञाननिबन्धनत्वात् । साधनवादिना हि साधुसाधनं ज्ञात्वा वक्तव्यं दूषणवादिना च दूषणं तत्र साधर्म्यवचनाद्वाऽर्थस्य प्रतिपत्तौ तदुभयवचने वादिनः प्रतिवादिना सभायामसाधनाङ्गवचन१ 'वैधर्म्यवचनात् ' इत्यधिकं क्वचित् ।

Loading...

Page Navigation
1 ... 132 133 134 135 136