Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 135
________________ मीमांसा ] १०७ सूत्र २-१-३४ स्योद्भावनात्साधुसाधनाज्ञानसिद्धेः पराजयः । प्रतिवादिनस्तु तद्दूषणज्ञाननिर्णयाजयः स्यात् । इत्यप्यविचारितरमणीयम् । यतः स प्रतिवादी सत्साधनवादिनः साधनाभासवादिनो वा वचनाधिक्यदोषमुद्भावयेत् । तत्राद्यपक्षे वादिनः कथं साधुसाधनाज्ञानं तद्वचनेयत्ताज्ञानस्यैवाभावात् । द्वितीयपक्षे तु न प्रतिवादिनो दूषणज्ञानमवतिष्ठते साधनाभासस्यानुद्भावनात्तद्वचनाधिक्यदोषस्य ज्ञानात् । दूषणज्ञोऽसाविति चेत् । साधनाभासाज्ञानाददूषणज्ञोऽपीति नैकान्ततो जयेत् । तददोषोद्भावनलक्षणस्य पराजयस्यापि निवारयितुमशक्तेः। अथ वचनाधिक्यदोषो, दोषोद्भावनादेव प्रतिवादिनो जयसिद्धौ साधनाभासोद्भावनमनर्थकम् । नन्वेवं साधनाभासानुद्भावनात्तस्य पराजयासिद्धौ वचनाधिक्योद्भावनं कथं जयाय प्रकल्पेत। अथ वचनाधिक्यं साधनाभासं चोद्भावयतः प्रतिवादिनो जयति कथमेवं साधर्म्यवचने वैधर्म्यवचनं वैधर्म्यवचने वा साधर्म्यवचनं पराजयाय प्रभवेत् । कथं चैवं वादिप्रतिवादिनोः पक्षप्रतिपक्षपरिग्रहवैयर्थ्य न स्यात् । कचिदेकत्रापि पक्षे साधनसामर्थ्यज्ञानाज्ञानयोः सम्भवात् । न खलु शब्दादौ नित्यत्वस्यानित्यत्वस्य वा परीक्षायामकस्य साधनसामर्थे ज्ञानमन्यस्य चाज्ञानं जयस्य पराजयस्य वा निबन्धनं न भवति । युगपत्साधनासामर्थ्यज्ञाने च वादिप्रतिवादिनोः कस्य जयः पराजयो वा स्यादविशेषात् । न कस्यचिदिति चेत् तर्हि साधनवादिनो वचनाधिक्यकारिणः साधनसामर्थ्या: ज्ञानसिद्धेः प्रतिवादिनश्च वचनाधिक्यदोषोद्भावनात्तदोषमात्रज्ञानसिहेर्न कस्यचिन्जयः पराजयो वा स्यात् । नहि यो यदोषं वेत्ति स तद्गुणमपि कुतश्चिन्मारणशक्तौ वेदनेऽपि विषद्रव्यस्य कुष्ठापनयनशक्तौ संवेदनानुदयात् तन्न तत्सामर्थ्यज्ञानाज्ञाननिबन्धनौ जयपराजयो व्यवस्थापयितुं शक्यौ । यथोक्तदोषानुषङ्गात् । स्वपक्षसि

Loading...

Page Navigation
1 ... 133 134 135 136