Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 136
________________ सूत्र 2-1-34 108 [प्रमाण द्वयसिद्धिनिबन्धनौ तु तौ निरवद्यौ पक्षप्रतिपक्षपरिग्रहवैयर्थ्याभावात् / कस्यचित् कुतश्चित् स्वपक्षसिद्धौ निश्चितायां परस्य तत्सिद्धयभावतः सकृज्जयपराजयप्रसङ्गात् / यच्चेदमदोषोद्भावनमित्यस्य व्याख्यानं प्रसज्यप्रतिषेधे दोषोद्भावनाभावमात्रमदोषोद्भावनम् / पर्युदासे तु दोषाभासानामन्यदोषाणां चोद्भावनं प्रतिवादिनो निग्रहस्थानमिति तद्वादिना दोषवति साधने प्रयुक्ते सत्यनुमतमेव / यदि वादी स्वपक्षं साधयेन्नान्यथा / वचनाधिक्यं तु दोषः प्रागेव प्रतिविहितो यथैव हि पञ्चावयवप्रयोगे वचनाधिक्यं यथा निग्रहस्थानं तथा व्यवयवप्रयोगे न्यूनतापि स्याद्विशेषाभावात् / प्रतिज्ञादीनि हि पञ्चाप्यनुमानं " प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः" इत्यभिधानात् तेषां मध्येऽन्यतमस्याप्यभिधाने न्यूनताख्यो दोषोऽनुषज्यत एव / हीनमन्यतमेनापि न्यूनमिति वचनात् ततो.ज़येतरव्यवस्थायां नान्यनिमित्तमुक्तानिमित्तादित्यलं प्रसङ्गेन / अयं च प्रागुक्तश्चतुरङ्गो वेदः - कदाचित्पत्रालम्बनमप्यपेक्षतेऽतस्तल्लक्षणमत्रावश्याभिधातव्यं यतो नाविज्ञातस्वरूपस्यावलम्बनं जयाय प्रभवति न चाविज्ञातस्वरूपं परपत्रं भेत्तुं शक्यमित्याहुः॥ इत्याचार्यश्रीहेमचन्द्रविरचितायाः प्रमाण- मीमांसायास्तवृत्तेश्च द्वितीयस्याध्या यस्य प्रथममाहिकं समाप्तम्॥ 1 गौतमसूत्र 1-1-32 // 2 " हीनमन्यतमेनाप्यवयवेन न्यूनम्” इति गौतमसूत्र 5-2-12 / 3 अवशिष्टो ग्रन्थो न लभ्यते /

Loading...

Page Navigation
1 ... 134 135 136