Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
सूत्र २-१-३४
[ प्रमाण यकं नित्यं शब्दोऽप्येवमस्त्विति” तदेतदापि व्याख्यानमसगन्तम् । इत्थमेव प्रतिज्ञाहानेरवधारयितुमशक्यत्वात् न खलुप्रतिपक्षस्य धर्म स्वपक्षेऽभ्यनुजानत एव प्रतिज्ञात्यागो येनायमेक एव प्रकारः प्रतिज्ञाहानौ स्यात् । अधिक्षेपादिभिराकुलीभावात् प्रकृत्या सभाभीरुत्वादन्यमनस्कत्वादेर्वा निमित्तत्वात् किंचित् साध्यत्वेन प्रतिज्ञाय तद्विपरीतं प्रतिजानानस्याप्युपलम्भात् पुरुषभ्रान्तेरनेककारणत्वोपपत्तिरित १ । प्रतिज्ञानार्थप्रतिषेधे परेण कृते तत्रैव धर्मिणि धर्मान्तरं साधनीयमाभदधतः प्रतिज्ञान्तरं नाम निग्रहस्थानं भवति । अनित्यः शब्दः ऐन्द्रियकत्वादित्युक्ते तथैव सामान्येन व्याभिचारे नोदिते । यदि ब्रूयाद्युक्तं सामान्यमैन्द्रियकं नित्यं तद्धि सर्वगतमसर्वगतस्तु शब्द इति सोऽयमनित्यः शब्द इति पूर्व प्रतिज्ञातः प्रतिज्ञान्तरमसर्वगतः शब्द इति कुर्वन् प्रतिज्ञान्तरेण निगृहीतो भवति । एतदपि प्रतिज्ञाहानिवन्न युक्तम् । तस्याप्यनेकनिमित्ततोपपत्तेः प्रतिज्ञाहानितश्चास्य कथं भेदः पक्षत्यागस्योभयत्राविशेषात् । यथैव हि प्रतिदृष्टान्तधर्मस्य स्वदृष्टातेऽभ्यनुज्ञानात् पक्षत्यागस्तथा प्रतिज्ञान्तरादपि । यथा च स्वपक्षसिध्यर्थ प्रतिज्ञान्तरं विधीयते तथा शब्दानित्यत्वसिध्द्यर्थ भ्रान्तिवशात्तच्छब्दोऽपि नित्योऽस्त्वित्यनुज्ञानं यथा चाभ्रान्तस्येदं विरुध्यते तथा प्रतिज्ञान्तरमाप । निमित्तभेदाच्च तद्भेदेऽनिष्टनिग्रहस्थानान्तराणामप्यनुष्वङ्गः स्यात् । तेषां च तत्रान्तर्भावे प्रतिज्ञान्तरस्यापि प्रतिज्ञाहानावन्तर्भावः स्यादिति २ । प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोधो नाम निग्रहस्थानं भवति यथा गुणव्यतिरिक्तं द्रव्यं रूपादिभ्योऽर्थान्तर
१ "प्रतिज्ञातार्थप्रतिषेधे धर्मविकल्पात्तदर्थनिर्देशः प्रतिज्ञान्तरम्'।गौतमसूत्र ५-२-३। २ ' नित्यत्वोपपत्तेः ' इति क्वचित्पाठः । ३ गौतमसूत्र ५-२-४ ।

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136