Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 122
________________ सूत्र २-१-३३ ९४ [ प्रमाण स पराजय एव वादिप्रतिवादिनोर्निग्रहो न बधबन्धादि । अथवा स एव स्वपक्षासिद्धिरूपपराजयो निग्रहहेतुत्वान्निग्रहो नान्यो यथाहुः परे " विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानमिति " ॥ ३३ ॥ तत्राह ॥ न विप्रतिपत्त्यप्रतिपत्तिमात्रम् ॥ २-१-३४ ॥ विपरीता कुत्सिता विगर्हणीया प्रतिपत्तिर्विप्रतिपत्तिः । साधना - भासे साधनबुद्धिर्दूषणाभासे च दूषणबुद्धिः । अप्रतिपत्तिस्त्वारम्भविषयेऽनारम्भः । स च साधने दूषणे दूषणं चोद्धरणं तयोरकरणमप्रतिपत्तिः । द्विधा हि वादी पराजयिते यथा कर्तव्यमप्रतिपद्यमानो विपरीतं वा प्रतिपद्यमान इति । विप्रतिपत्त्यप्रतिपत्ती एव विप्रतिपत्त्यप्रतिपत्तिमात्रं न पराजयहेतुः किं तु स्वपक्षस्यासिद्धिरेवेति विप्रतिपत्त्यप्रतिपत्त्योश्च निग्रहस्थानत्वनिरासात्तद्भेदानामपि निग्रहस्थानत्वं निरस्तम् । ते च द्वाविंशतिर्भवन्ति । तद्यथा १ प्रतिज्ञाहानिः २ प्रति - ज्ञान्तरं ३ प्रतिज्ञाविरोधः ४ प्रतिज्ञासंन्यासो ५ हेत्वन्तरं ६ अर्थान्तरं ७ निरर्थकं ८ अविज्ञातार्थ ९ अपार्थकं १० अप्राप्तकालं ११ न्यूनं १२ अधिकं १३ पुनरुक्तं १४ अननुभाषणं १५ अज्ञानं १६ अप्रतिभा १७ विक्षेपः १८ मतानुज्ञा १९ पर्यनुयोज्योपेक्षणं २० निरनुयोज्यानुयोगः २१ अपसिद्धान्तो २२ हेत्वाभासश्चेति । अत्राननुभाषणमज्ञानमप्रतिभा विक्षेपः पर्यनुयोज्योपेक्षणमित्यप्रतिपत्तिप्रकाराः । शेषा विप्रतिपत्तिभेदा । तत्र प्रतिज्ञाहानेलक्षणं “प्रतिदृष्टान्तधर्माभ्यनुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः" इति - १ गौतमसूत्र १ - २ - १९ । २ गौतमसूत्र ५ - २ - १ । ३ गौतमसूत्र ५-२-२ ।

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136