Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
१०१
मीमांसा ]
सूत्र २-१-३४ रभावात् अतस्तद्धीनमेव न्यूनं निग्रहस्थानमिति ११ । एकेनैव हेतुनोदाहरणेन वोऽर्थे हेत्वन्तरमुदाहरणान्तरं वा वदतोऽधिकं नाम निग्रहस्थानं भवति निष्पयोजनाभिधानात् । एतदप्ययुक्तम् । तथाविधाद्वाक्यात् पक्षसिद्धौ पराजयायोगात् । कथं चैवं प्रमाणसंप्लवोऽभ्युपगम्येताभ्युपगमे वाधिकान्निग्रहाय जायेत । प्रतिपत्तिदाढर्यसंवादसिद्धिप्रयोजनसद्भावान्न निग्रह इत्यन्यत्रापि समानम् । हेतुनोदाहरणेन चैकेन प्रसाधितेऽप्यर्थे द्वितीयस्य हेतोरुदाहरणस्य वा नानर्थक्यम् । तत्प्रयोजनसद्भावात् । न चैवमनवस्था कस्यचित् कचिनिराकाङ्क्षतापपत्तेः प्रमाणान्तरवत् । कथं चास्य कृतकत्वादौ स्वार्थिकप्रत्ययस्य वचनं यत्कृतकं तदनित्यमिति व्याप्तौ यत्तद्वचनवृत्तिपदप्रयोगादेव चार्थप्रतिपत्तौ वाक्यप्रयोगोऽधिकत्वान्निग्रहस्थानं न स्यात् । तथाविधस्याप्यस्य प्रतिपत्तिविशेषोपायत्वात्तवेति चेत् । कथमनेकस्य हेतोरुदाहरणस्य वा तदुपायभूतस्य वचनं निग्रहाधिकरणम् । निरर्थकस्य तु वचनं निरर्थकत्वादेव निग्रहस्थानं नाधिकत्वादिति १२ । शब्दार्थयोः पुनर्वचनं पुनरुक्तं नाम निग्रहस्थानं भवत्यन्यत्रानुवादात् । शब्दपुनरुक्तं नाम यत्र स एव शब्दः पुनरुच्चार्यते । यथाऽनित्यः शब्दोऽनित्यः शब्द इति । अर्थपुनरुक्तं यत्र सोऽर्थः प्रथममन्येन शब्देनोक्तः पुनः पर्यायान्तरेणाच्यते । यथा नित्यः शब्दोऽविनाशी ध्वनिरिति । अनुवादे तु पौनरुक्तमदोषो यथा “ हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनम्" इति । अत्रार्थपुनरुक्तमेवानुपपन्नं न शब्दपुनरुक्तमर्थभेदेन शब्दसाम्येऽप्यस्य सम्भवात् । यथा “ हसति हसति स्वामि
१ " हेतूदाहरणाधिकमधिकम् ” । गौतमसूत्र ५-२-१३ । २ 'प्रतिपादितार्थे ' इति क्वचित्पाठः । ३ " शब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादात् ” । गौतमसूत्र ५-२-१४ । ४ गौतमसूत्र १-१-३९। ।

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136