Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 131
________________ १०३ मीमांसा ] अविदितोत्तरविषयो हि कोत्तरं ब्रूयात् । न चाननुभाषणमेवेदं ज्ञातेऽपि वस्तुन्यननुभाषणासामर्थ्यदर्शनात् । एतदप्यसाम्प्रतम् । प्रतिज्ञाहान्यादिनिग्रहस्थानानां भेदभावानुषङ्गात् । तत्राप्यज्ञानस्यैव सम्भवात् तेषां तत्प्रभेदत्वे वा निग्रहस्थानप्रतिनियमाभावप्रसङ्गः परोक्तस्यार्धाज्ञानादिभेदेन निग्रहस्थानानेकत्वप्रसङ्गात् १५ । परपक्षे गृहीतेऽप्यनुभाषितेऽपि तस्मिन्नुत्तराप्रतिपत्तिरप्रतिभा नाम निग्रहस्थानं भवति एषाप्यज्ञानान्न भिद्यते १६ । “ कार्यव्यासङ्गात् कथाविच्छेदो विक्षेपो " नाम निग्रहस्थानं भवति सिषाधयिषितस्यार्थस्याशक्यसाधनतामवसाय कथां विच्छिनत्तीदं मे करणीयं परिहीयते पीनसेन कण्ड उपरुद्ध इत्याद्यभिधाय कथां विच्छिन्दन् विक्षेपेण पराजीयते । एतदप्यज्ञानतो नार्थान्तरमिति १७ । स्वपक्षे परापादितदोषमनुद्धृत्य तमेव परपक्षे प्रतीपमापादयतो मतानुज्ञा नाम निग्रहस्थानं भवति । चौरो भवान् पुरुषत्वात्प्रसिद्धचौरवादित्युक्ते भवानपि चोरः पुरुषत्वादिति ब्रुवन्नात्मनः परापादितं चौरत्वदोषमभ्युपगतवान् भवतीति मतानुज्ञया निगृह्यते । इदमप्यज्ञानान्न भिद्यते । अनैकान्तिकता चात्र हेतोः स ह्यात्मीयहेतोरात्मीयेनैवानैकान्तिकतां दृष्ट्वा माह भवत्पक्षेऽप्ययं दोषः समानस्त्वमपि पुरुषो भवसीत्यनैकान्तिकत्वमेवोद्भावयतीति १८ । निग्रहप्राप्तस्यानिग्रहः पर्यनुयोज्योपेक्षणं नाम निग्रहस्थानं भवति । पर्यनुयोज्यो नाम १ “ उत्तरस्याप्रतिपत्तिरप्रतिभा " । गौतमसूत्र ५ - २ - १८ । २ गौतमसूत्र ५ - २ - १९ । ३ पीनसो रोगविशेषः । C ४ न भिद्यते ' इति कचित्पाठः । सूत्र २-१-३४ face ५ “ स्वपक्षदोषाभ्युपगमात्परप ( " क्षदो " ) क्षे दोषप्रसङ्गो मतानुज्ञा गौतमसूत्र ५-२-२० । ६ " निग्रहस्थानप्रात्पस्यानिग्रहः पर्यनुयोज्योपेक्षणम्" । गौतमसूत्र ५-२-२१ । 53 1

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136