Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 123
________________ मीमांसा ] ९५ सूत्र २-१-३४ सूत्रम् । अस्य भाष्यकारीयं व्यारव्यानं " साध्यधर्मप्रत्यनीकेन धर्मेण प्रत्यवस्थितः प्रतिदृष्टान्तधर्म स्वदृष्टान्तेऽनुजानन् प्रतिज्ञां जहातीति प्रतिज्ञाहानिः। यथाऽनित्यः शब्दःऐन्द्रियकत्वाद्घटवदित्युक्ते परःप्रत्यवतिष्ठते सामान्यमैन्द्रियकं नित्यं दृष्टं कस्मान्न तथा शब्दोऽपीत्येवं स्वप्रयुक्तस्य हेतोराभासतामवस्यन्नपि कथावसानमकृत्वा प्रतिज्ञात्यागं करोति यद्यन्द्रिकं सामान्यं नित्यं कामं घटोऽपि नित्योऽस्त्विति । स खल्वयं साधनस्य दृष्टान्तस्य नियत्वं प्रसजयन् निगमनान्तमेव पक्षं जहाति । पक्षं च परित्यजन् प्रतिज्ञां जहातीत्युच्यते प्रतिज्ञाश्रयत्वात् पक्षस्येति"। तदेतदसङ्गतमेव । साक्षाद् दृष्टान्तहानिरूपत्वात् तस्यास्तत्रैव धर्मपरित्यागात् । परम्परया तु हेतूपनयनिगमनानामपि त्यागो, दृष्टान्तासाधुत्वे तेषामप्यसाधुत्वात् । तथा च प्रतिज्ञाहानेरेवेत्यसङ्गतमेव । वार्तिककारस्तु व्याचष्टे " दृष्टश्चासावन्ते स्थितत्वादन्तश्चेति दृष्टान्तः स्वपक्षः । प्रतिदृष्टान्तः प्रतिपक्षः । प्रतिपक्षस्य धर्म स्वपक्षेऽभ्यनुजानन् प्रतिज्ञां जहाति यदि सामान्यमन्द्रि__ १ वात्स्यायन भाष्ये तु-" साध्यधर्मप्रत्यनीकेन धर्मेण प्रत्यवस्थिते प्रतिदृष्टान्तधर्म स्वदृष्टान्तेऽभ्यनुजानन्प्रतिज्ञां जहातीति प्रतिज्ञाहानिः । निदर्शनम्-ऐन्द्रियकत्वादनित्यः शब्दो घटवदिति कृतेऽपर आह दृष्टमैन्द्रिकत्वं सामान्ये नित्ये कस्मान्न तथा शब्द इति प्रत्यवस्थिते, इदमाह यद्यन्द्रियक सामान्यं नित्यं कामं घटो नित्योस्त्विति । स खल्वयं साधकस्य दृष्टान्तस्य नित्यत्वं प्रसञ्जयन्निगमनान्तमेव पक्षं जहाति । पक्षं जहत्पतिज्ञां जहातीत्युच्यते प्रतिज्ञाश्रयत्वात्पक्षस्येति । गौतमसूत्र ५-२-२ ॥ २ न्यायवार्तिके तु " दृष्टश्चासावन्ते व्यवस्थित इति दृष्टान्तः स्वश्चासौ दृष्टान्तश्चेति स्वदृष्टान्तशब्देन पक्ष एवाभिधीयते प्रतिदृष्टान्तशब्देन च प्रतिपक्षः प्रतिपक्षश्चासौ दृष्टान्तश्चेति । एतदुक्तं भवति । परपक्षस्य यो धर्मस्तं स्वपक्ष एवानुजानातीति यथाऽनित्यः शब्दः ऐन्द्रियकवादिति द्वितीयपक्षवादिनि सामान्येन प्रत्यवस्थिते इदमाह यदि सामान्यमन्द्रियकं नित्यं दृष्टमिति शब्दोऽप्येवं भवत्विति" । न्यायवार्तिक पृ.५५२ ५.८

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136