Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
सूत्र २-१-३४
९८ -
[प्रमाण एतदप्यर्थान्तरं निग्रहस्थानं समर्थे साधने दूषणे वा प्रोक्त निग्रहाय कल्पेतासमर्थे वा । न तावत्समर्थे स्वसाध्यं प्रसाध्य नृत्यतोऽपि दोषाभावाल्लोकवत् । असमर्थेऽपि प्रतिवादिनः पक्षासिद्धौ तन्निग्रहाय स्यादसिद्धौ वा । प्रथमपक्षे तत्पक्षसिद्धिरेवास्य निग्रहो न त्वतो निग्रहस्थानात् । दितीयपक्षेऽप्यतो न निग्रहः पक्षसिद्धरुभयोरप्यभावादिति ६ । अभिधेयरहितवर्णानुपूर्वीप्रयोगमात्रं निरर्थकं वाम निग्रहस्थानं भवति । यथा नित्यः शब्दः कचटतपानां गजडदबत्वाद् घझढधभवदित्येतदपि सर्वथार्थशून्यत्वानिग्रहाय कल्पेत साध्यानुपयोगाद्वा । तत्राद्यविकल्पोऽयुक्तः। सर्वथार्थशून्यशब्दस्गवासम्भवात् । वर्णक्रमानिर्देशस्याप्यनुकार्येणार्थेनार्थवत्त्वोपपत्तेः । द्वितीयविकल्पे तु सर्वमेव निग्रहस्थानं निरर्थकं स्यात् । साध्यसिदावनुपयोगित्वाविशेषात् । किंचिद्विशेषमात्रण भेदेनं वात्कृतहस्तास्फालनकक्षापिट्टनादेरापि साध्यानुपयोगिनो निग्रहस्थानान्तरत्वानुषङ्ग इति ७ । यत्साधनवाक्यं दूषणवाक्यं वा त्रिरभिहितमपि परिषत्पतिवादिभ्यां बोद्धं न शक्यते तदविज्ञातार्थ नाम निग्रहस्थानं भवति । अत्रेदमुच्यते । वादिना त्रिरभिहितमपि वाक्यं परिषत्प्रतिवादिभ्यां मन्दमतित्वादविज्ञातं गूढाभिधानतो वा द्रुतोच्चाराद्वा । प्रथमपक्षे सत्साधनवादिनोऽप्येतन्निग्रहस्थानं स्यात् । तत्राप्यनयोर्मन्दमतित्वेनाविज्ञातत्वसम्भवात् । द्वितीयपक्षे तु यत्र वाक्यप्रयोगेऽपि तत्प्रसङ्गो गूढाभिधानतया परिषत्प्रतिवादिनोर्महामाज्ञयोरग्यविज्ञातत्वोपलम्भात् । अथाभ्यामविज्ञातमप्येतद्वादी व्याचष्टे गूढोपन्यासमप्यात्मनः स एव व्याचष्टामव्याख्याने तु जयाभाव एवास्य । न
१ " वर्णक्रमनिर्देशवन्निरर्थकम् "। गौतमसूत्र ५-२-८ । २ 'भेदे वा षट् कृत ' इति क्वचित्पाठः । ३ "परिषत्प्रतिवादिभ्यां त्रिराभिहितमप्यविज्ञातमविज्ञातार्थम्" । गौतमसूत्र ५-२-९।

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136