Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 120
________________ सूत्र २-१-३० [ प्रमाण क्षणे सिद्धान्ताविरुद्ध इत्यनेनापसिद्धान्तस्य पञ्चावयवोपपपन्न इत्यनेन न्यूनाधिकयोर्हेत्वाभासपञ्चकस्य चेत्यष्टानां निग्रहस्थानानामनुज्ञानात् तेषां च निग्रहस्थानान्तरोपलक्षणत्वात् । अत एव न जल्पवितण्डे कथे वादस्यैव तत्त्वसंरक्षणार्थत्वात् । ननु " येथोक्तोपपन्नछलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः । से प्रतिपक्षस्थापनाहीना वितण्डा " इति लक्षणे भेदाज्जल्पवितण्डे अपि कथे विद्येते एव । न । प्रतिपक्षस्थापनाहीनाया वितण्डायाः कथात्वायोगात् । Aarushi हि स्वपक्षमभ्युपगम्यास्थापयन् यत्किंचिद्वादेन परपक्षमेव दूषयन् कथमवधेयवचनः । जल्पस्तु यद्यपि द्वयोरपि वादिप्रतिवादिनोः साधनोपालम्भसम्भावनया कथात्वं लभते तथापि न वादादर्थान्तरम् | वादेनैव चरितार्थत्वात् । छलजातिनिग्रहस्थानभूयस्त्वयोगादचरितार्थ इति चेत् । न । छलजातिप्रयोगस्य दूषणाभासत्वेनाप्रयोज्यत्वात् निग्रहस्थानानां च वादेप्यविरुद्धत्वात् । न खलु खटचपेटामुखबन्धादयोऽनुचिता निग्रहा जल्पेऽप्युपयुज्यन्ते । उचितानां च निग्रहस्थानानां वादेऽपि न विरोधोऽस्ति । तन्न वादात् जल्पस्य कश्चिद् विशेषोऽस्ति । लाभपूजाख्यातिकामितादीनि तु प्रयोजनानि तत्त्वाध्यवसायसंरक्षणलक्षणप्रधानफलानुबन्धीनि पुरुषधर्मत्वाद्वादेऽपि न निवारयितुं पार्यन्ते । ननु छलजातिप्रयोगोऽसदुत्तरत्वाद्वादे न भवति । जल्पे तु तस्यानुज्ञानादस्ति वादजल्पयोविंशेषः । यदाह “ दुःशिक्षितकुतर्कांशलेशवाचालिताननाः । शक्याः किमन्यथा जेतुं वितण्डाटोपपण्डिताः॥१॥ गतानुगतिको लोकः कुमार्गं तत्प्रतारितः । मा गादिति छलादीनि प्राह कारुणिको मुनिः " ॥ २ ॥ इति, नैवम् । । 1 १ गौतमसूत्र १-२-२ २ गौतमसूत्र १-२-३ | ९२

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136