Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
[ प्रमाण
नामन्यथानुपपत्तिलक्षणानुमानलक्षणहेतुपरीक्षणमेव । नह्यविप्लुतलक्षणे तावेवं प्रायाः पांशुपाताः प्रभवन्ति । कृतकत्वप्रयत्नानन्तरीयकत्वयोश्च दृढप्रतिबन्धत्वान्नावरणादिकृतं शब्दानुपलम्भनमपि त्वनित्यत्वकृतमेव । जातिप्रयोगे च परेण कृते सम्यगुत्तरमेव वक्तव्यं न प्रतीपं जात्युत्तरैरेव प्रत्यवस्थेयमासमञ्जस्यप्रसङ्गादिति ॥ छलमपि च सम्यगुत्तरत्वाभावाज्जात्युत्तरमेव । उक्तं ह्येतदुद्भावनप्रकारभेदेनानन्तानि जात्युत्तराणीति । तत्र परस्य वदतोऽर्थविकल्पोपपादनेन वचनविघातश्छलम्। तत्रिधा वाक्छलं सामान्यछलमुपचारछलं चेति । तत्र साधारणशब्दे प्रयुक्ते वक्तुरभिप्रेतादर्थान्तरकल्पनया तन्निषेधो वाकुछलं यथा नवकम्बलोऽयं माणवक इति नूतनविवक्षया कथिते परः सङ्ख्यामारोप्य निषेधति कुतोऽस्य नव कम्बला इति । सम्भावनयातिप्रसङ्गिनोऽपि सामान्यस्योपन्यासे हेतुत्वारोपणेन तन्निषेधः सामान्यछलं यथाsहो न खल्वसौ ब्राह्मणो विद्याचरणसम्पन्न इति ब्राह्मस्तुतिप्रसङ्गे कचिद्वदति । सम्भवति ब्राह्मणे विद्याचरणसम्पदिति तच्छलवादी ब्राह्मणत्वस्य हेतुतामारोप्य निराकुर्वन्नभियुङ्क्ते यदि ब्राह्मणे विद्याचरणसम्पद् भवति । व्रात्येऽपि सा भवेत्त्रात्योऽपि ब्राह्मण एवेति । औपचारिके प्रयोगे मुख्यप्रतिषेधेन प्रत्यव - स्थानमुपचारछलं यथा मञ्चाः क्रोशन्तीति उक्ते परः प्रत्यवतिष्ठते कथमचेतनाः मञ्चाः क्रोशन्ति मञ्च स्थास्तु पुरुषाः क्रोशन्तीति । तदत्र छलत्रयेऽपि वृद्धव्यवहारप्रसिद्धशब्द सामर्थ्यपरीक्षणमेव समाधानं वेदितव्यमिति ॥ २९ ॥
साधनदूषणाभिधानं च प्रायो वादे भवतीति वादस्य लक्षण
सूत्र २-१-२९
माह
१ नेत्रेषु धूलिप्रक्षेपा इत्यर्थः ।
९०

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136