Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
सूत्र २-१-२९
८८
[ प्रमाण ब्दत्ववदिति उद्भावनप्रकारभेदमात्रे सात नानात्वं द्रष्टव्यम्, १५ त्रैकाल्यानुपपत्त्या हेतोः प्रत्यवस्थानमहेतुसमा जातिः । यथा हेतुः साधनं तत्साध्यात्पूर्व पश्चात्सह वा भवेत् । यदि पूर्वमसति साध्ये तत्कस्य साधनम् अथ पश्चात्साधनम् पूर्व तर्हि साध्यं तस्मिन् पूर्व सिद्धे किं साधनेन अथ युगपत्साध्यसाधने तर्हि तयोः सव्येतरगोविषाणयोरिव साध्यसाधनभाव एव न भवेदिति १६ अर्थापत्त्या प्रत्यवस्थानमापत्तिसमा जातिः। यद्यनित्यसाधास्कृतकत्वादनित्यः शब्दोऽर्थादापद्यते नित्यसाधान्नित्य इति अस्ति चास्य नित्येनाकाशादिना साधम्र्ये निरवयवत्वमित्युद्भावनं प्रकारभेद एवायामिति १७ अविशेषापादनेन प्रत्यवस्थानमविशेषसमा जातिः । यथा यदि शब्दघटयोरेको धर्मः कृतकत्वमिष्यते तर्हि समानधर्मयोगात्तयोरविशेषे तद्वदेव सर्वपदार्थानामविशेषः प्रसज्यत इति १८ उपपत्त्या प्रत्यवस्थानमुपपत्तिसमा जातिः । यथा याद कृतकत्वोपपत्त्या शब्दस्यानित्यत्वं निरवयवत्वोपपत्त्या नित्यत्वमपि कस्मान्न भवति पक्षद्वयोपपत्त्याऽनध्यवसायपर्यवसानत्वं विवक्षितमित्युद्भावनप्रकारभेद एवायम् १९ उपलब्ध्या प्रत्यवस्थानमुपलब्धिसमा जातिः। यथाऽनित्यः शब्दःप्रयनानन्तरीयकत्वादिति प्रयुक्ते प्रत्यवतिष्ठते न खलु प्रयत्नानन्तरीयकत्वमनित्यत्वे साधनम् । साधनं हि तदुच्यते येन विना न साध्यमुपलभ्यते । उपलभ्यते च प्रयत्नानन्तरीयकत्वेन विनापि विद्युदादावनित्यत्वं शब्देऽपि कचिद्वायुवेगभज्यमानवनस्पत्यादिजन्ये तथैवेति २० अनुपलब्ध्या प्रत्यवस्थानमनुपलब्धिसमा जातिः । यथा तत्रैव प्रयत्नानन्तरीयकत्वहेतावुपन्यस्ते सत्याह जातिवादी न प्रयत्नकार्यः शब्दः प्रागुच्चारणादस्त्येव आवरणयोगात्तु नोपलभ्यते । आवरणानुपलम्भेऽप्यनुपलम्भानास्त्येव शब्द इति चेत्,

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136