Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 114
________________ सूत्र २-१-२९ [प्रमाण पत्त्यविशेषोपपत्त्युपलब्ध्यनुपलब्धिनित्यानित्यकार्यसमरूपतया चतुविंशतिः , उपदर्श्यन्ते । तत्र साधयेण प्रत्यवस्थानं साधर्म्यसमा जातिः । यथा नित्यः शब्दः कृतकत्वात् घटवदिति प्रयोगे कृते साधर्म्यप्रयोगेणैव प्रत्यवस्थानं नित्यः शब्दो निरवयवत्वादाकाशवत् । न चास्ति विशेषहेतुर्घटसाधात् कृतकत्वादनित्यः शब्दो न पुनराकाशसाधान्निरवयवत्वान्नित्य इति १। वैधर्येण प्रत्यवस्थानं वैधर्म्यसमा जातिः । यथाऽनित्यः शब्दः कृतकत्वादित्यत्रैव प्रयोगे स एव हेतु(धर्येण प्रयुज्यते । नित्यः शब्दो निरवयवत्वात् । अनित्यं हि सावयवं दृष्टं घटादीति । न चास्ति विशेषहेतुर्घटसाधर्म्यात्कृतकत्वादनित्यः शब्दो न पुनस्तद्वैधान्निरवयवत्वान्नित्य इति २ उत्कर्षापकर्षाभ्यां प्रत्यवस्थानमुत्कर्षापकर्षसमे जाती । तत्रैव प्रयोगे दृष्टान्तधर्म कांचित् साध्यधर्मिण्यापादयन्नुत्कर्षसमां जातिं प्रयुङ्क्ते । यदि घटवत् कृतकत्वादनित्यः शब्दो घटवदेव मूर्तोऽपि भवतु न चेन्मूर्तो घटवदनित्योऽपि माभूदिति शब्दे धर्मान्तरोत्कर्षमापादयति ३ अपकर्षस्तु घटः कृतकः सन्नश्रावणो दृष्ट एवं शब्दोप्यस्तु नो चेद् घटवदनित्योपि माभूदिति शब्दे श्रावणत्वधर्ममपकर्पतीति ४ वर्ष्यावर्ष्याभ्यां प्रत्यवस्थानं वावर्ण्यसमे जाती । ख्यापनीयो वर्ण्यस्तद्विपरीतोऽवर्ण्यः तावेतौ वावण्यौँ साध्यदृष्टान्तधौं विपर्यस्यन्वावर्ण्यसमे जाती प्रयुङ्क्ते। यथाविधः शब्दधर्मः कृतकत्वादिर्न तादृग्घटधर्मो यादग्घटधर्मो न तादृक् शब्दधर्म इति ५-६ धर्मान्तरविकल्पेन प्रत्यवस्थानं विकल्पसमा जातिः । यथा कृतकं किंचिन्मृदु दृष्टं राङ्कवशय्यादि किंचिकठिनं कुठारादि एवं कृतकं किंचिदनित्यं भविष्यति घटादि किंचि१ ' प्रतिहेतुः' इति पाठः । २ ' यादृक् च ' इति क्वचित्पाठः ।

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136