Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 112
________________ सूत्र २-१-२६ B ८४ तथा ॥ विपरीतान्वयव्यतिरेकौ ॥ २-१-२६ ॥ विपरीतान्वयो विपरीतव्यतिरेकश्च दृष्टान्ताभासौ भवतः । तत्र विपरीतान्वयो यथा यत्कृतकं तदनित्यमिति वक्तव्ये यदनित्यं तत्कृतकं यथा घट इत्याह । विपरीतव्यतिरेको यथा अनित्यत्वाभावे न भवत्येव कृतकत्वमिति वक्तव्ये कृतकत्वाभावे न भवत्येवानित्यत्वं यथाकाश इत्याह । साधनधर्मानुवादेन साध्यधर्मस्य विधानमित्यन्वयः । साध्यधर्मव्यावृत्यनुवादेन साधनधर्मव्यावृत्तिविधानमिति व्यतिरेकः । तयोरन्यथाभावो विपरीतत्वम्, यदाह “साध्यानुवादाल्लिङ्गस्य विपरीतान्वेयो विधिः । हेत्वभावे त्वसत्साध्यं व्यतिरेकविपर्ययं " इति ॥ २६ ॥ [ प्रमाण ――――― तथा - ॥ अप्रदर्शितान्वयव्यतिरेकौ ॥ २-१-२७ ॥ अप्रदर्शितान्वयोऽप्रदर्शितव्यतिरेकञ्च दृष्टान्ताभासौ । एतौ च प्रमाणस्यानुपदर्शनाद्भवतो न तु धीप्सा सर्वावधारणपदानामप्रयोगात् । सत्स्वपि तेष्वसति प्रमाणे तयोरसिद्धेरिति साध्यविकलः १ साधनविकलः २ उभयविकलः ३ सन्दिग्धसाध्यान्वय: ४ सन्दिग्धसाधनान्वयः ५ सन्दिग्धोभयान्वयः ६ विपरीतान्वयः ७ अप्रदर्शितान्वयः ८ चेत्यष्टौ साधर्म्यदृष्टान्ताभासाः । साध्याव्यावृत्तसाधनाव्यावृत्तोभयव्यावृत्ताः सन्दिग्धसाध्यव्यावृत्तिसन्दिग्धसाधनव्यावृत्तिसन्दिग्धोभयव्यावृत्तयो विपरीतव्यतिरेकोऽप्रदर्शितव्यतिरेकश्चेत्यष्टावेव वैधर्म्यदृष्टान्ताभासा भवन्ति । नन्वनव्ययाव्यतिरेकावपि कैश्चिदृष्टान्ताभासावुक्तौ । यथा रागादिमानयं वचनात् । अत्र साधर्म्यदृष्टान्ते आत्मनि रागवचनयोः सत्यपि साहित्ये वैध१ ' विपरीतान्वये ' इति पाठः ।

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136