Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 111
________________ मीमांसा ] सूत्र २-१-२५ ॥ वैधर्म्येण परमाणुकर्माकाशाः साध्याद्यव्यतिरेकिणः ।। २-१-२४ ॥ नित्यः शब्दोऽमूर्त्तत्वादित्यस्मिन्नेव प्रयोगे परमाणुकर्माकाशाः साध्यसाधनोभयाव्यतिरेकिणो दृष्टान्ताभासा भवन्ति यन्नित्यं न भवति तदमूर्तमपि न भवति यथा परमाणुरिति साध्याव्यतिरेकी नित्यत्वात् परमाणूनाम् । यथा कर्मेति साधनाव्यावृत्तः अमूर्तत्वात् कर्मणः । यथाकाशमित्युभयाव्यावृत्तः नित्यत्वादमूर्त्तत्वाच्चाकाशस्येति य एव वैधर्म्यदृष्टान्ताभासाः || २४ ॥ ८३ तथा ॥ वचनाद्रागे रागान्मरणधर्मत्व किंचिज्ज्ञत्वयोः सन्दिग्धसाध्याद्यन्वयव्यतिरेका रथ्या पुरुषादयः ||२-१-२५॥ -- सन्दिग्धसाध्यसाधनोभयान्वयाः सन्दिग्धसाध्यसाधनोभयव्यतिरेकाr araat दृष्टान्ताभासा भवन्ति । क इत्याह, रथ्यापुरुषादयः कस्मिन् साध्ये रागे मरणधर्मकिंचिज्ज्ञत्वयोश्च । कस्मादित्याह वचनाद्रागाच्च । तत्र सन्दिग्धसाध्यधर्मान्वयो यथा विवक्षितः पुरुषविशेषो रागी वचनाद्रध्यापुरुषवत् । सन्दिग्धसाधनधर्मान्वयो यथा मरणधर्मायं रागाद्रथ्यापुरुषवत् । सन्दिग्धोभयधर्मान्वयो यथा किंचिज्ज्ञोऽयं रागाद्रध्यापुरुषवदिति । एषु परचेतोवृत्तीनां दुरधिगमत्वेन साधर्म्यदृष्टान्ते रथ्यापुरुषे रागकिंचिज्ज्ञत्वयोः सत्त्वं सन्दिग्धम् । तथा सन्दिग्धसाध्यव्यतिरेको यथा रागी वचनाद्रध्यापुरुषवत् । सन्दिग्धसाधनव्यतिरेको यथा मरणधर्मायं रागाद्रथ्यापुरुषवत् । सन्दिग्धोभयव्यतिरेको यथा किंचिज्जोऽयं रागाद्रथ्यापुरुषवत् । एषु पूर्ववत् परचेतोवृत्तेर्दुरन्वयत्वाद्वैधर्म्यदृष्टान्ते रथ्यापुरुषे रागकिंचिज्ज्ञत्वयोरसत्त्वं सन्दिग्धमिति ॥ २५ ॥

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136