Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 115
________________ मीमांसा ] ८७ सूत्र २-१-२९ नित्यं शब्दादीति ७ साध्यसाम्यापादनेन प्रत्यवस्थानं साध्यसमा जातिः । यथा यदि यथा घटस्तथा शब्दः प्राप्तं तर्हि यथा शब्दस्तथा घट इति घटोऽपि साध्यो भवतु । ततश्च न साध्यः साध्यस्य दृष्टान्तः स्यात् । न चेदेवं तथापि वैलक्षण्यात्सुतरामदृष्टान्त इति ८ प्राप्त्यप्राप्तिीर्विकल्पाभ्यां प्रत्यवस्थानं प्रीत्यप्राप्तिसमे जाती । यथा यदेतत् कृतकत्वं त्वया साधनमुपन्यस्तं तत्किं प्राप्य साधयत्यप्राप्य वा । प्राप्य चेत् द्वयोर्विद्यमानयोरेव प्राप्तिर्भवति न सदसतोरिति द्वयोश्च सत्त्वात् किं कस्य साध्यं साधनं वा ९ अप्राप्य तु साधनत्वमयुक्तमतिप्रसङ्गादिति १० अतिप्रसङ्गापादनेन प्रत्यवस्थानं प्रसङ्गसमा जातिः । यथा यद्यनित्यत्वे कृतकत्वं साधनं कृतकत्व इदानीं किं साधनं तत्साधनेऽपि किं साधनमिति ११ प्रतिदृष्टान्तेन प्रत्यवस्थानं प्रतिदृष्टान्तसमा जातिः । यथाऽनित्यः शब्दः प्रयत्नानन्तरीयकत्वात् घटवदित्युक्ते जातिवाद्याह यथा घटः प्रयत्नानन्तरीयकोऽनित्यो दृष्ट एवं प्रतिदृष्टान्त आकाशं नित्यमपि प्रयत्नानन्तरीयकं दृष्टं कूपखननप्रयत्नानन्तरमुपलम्भादिति । न चेदमनैकान्तिकत्वोद्भावनं भङ्गयन्तरेण प्रत्यवस्थानात् १२ अनुत्पत्त्या प्रत्यवस्थानमनुत्पत्तिसमा जातिः । यथानुत्पन्ने शब्दाख्ये धर्मिणि कृतकत्वं धर्मः क्व वर्तते तदेवं हेत्वभावादसिद्धिरनित्यत्वस्येति १३ साधर्म्यसमा वैधर्म्यसमा वा या जातिः पूर्वमुदाहृता सैव संशयेनोपसंह्रियमाणा संशयसमा जातिर्भवति । यथा किं घटसाधर्म्यात् कृतकत्वादनित्यः शब्द उत तद्वैधर्म्यादाकाशसाधर्म्याद्वा निरवयवत्वाद्वा नित्य इति १४ द्वितीयपक्षोत्थापनबुद्ध्या प्रयुज्यमाना सैव साधर्म्यसमा वैधर्म्यसमा वा जातिः प्रकरणसमा भवति तथैवानित्यः शब्दः कृतकत्वाद् घटवदिति प्रयोगे नित्यः शब्दः श्रावणत्वाच्छ १ ' प्रतिदृष्टान्त ' इत्यधिकं क्वचित्पुस्तके ।

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136