Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
मीमांसा] ९१
सूत्र २-१-३० ॥तत्त्वसंरक्षणार्थं प्राश्निकादिसमक्षं साधनदूषणवदनं वादः ॥२-१-३०॥
स्वपक्षसिद्धये वादिनः साधनं तत्प्रतिषेधाय प्रतिवादिनो दृषणम्। प्रतिवादिनोऽपि स्वपक्षसिद्धये साधनं तत्प्रतिषेधाय वादिनो दूषणम् । तदेवं वादिनः साधनदूषणे प्रतिवादिनोऽपि साधनदृषणे तयोर्वादिप्रतिवादिभ्यां वदनमाभिधानं वादः । कथामित्याह प्राश्निकादिसमक्षं प्राश्निकाः सभ्याः " स्वसमयपरसमयज्ञाः, कुलजाः पक्षद्वयेप्सिताः क्षमिणः । वादपथेष्वाभयुक्तास्तुलासमाः प्राश्निकाः प्रोक्ताः” इत्येवंलक्षणाः । आदिग्रहणेन सभापतिवादिप्रतिवादिपरिग्रहः । सेयं चतुरङ्गा कथा । एकस्याप्यगास्य वैकल्ये कथात्वानुपपत्तेः । नहि वर्णाश्रमापालनक्षम न्यायान्यायव्यवस्थापकं पक्षपातरहितत्वेन समदृष्टिं सभापतिं यथोक्तलक्षणांश्च प्राश्निकान् विना वादिप्रतिवादिनौ स्वाभिमतसाधनदूषणसरणिमाराधयितुं क्षमौ । नापि दुःशिक्षितकुतर्कलेशवाचालबालिशजनविप्लावितो गतानुगतिको जनः सन्मार्ग प्रतिपद्यतेति । तस्य फलमाह तत्त्वसंरक्षणार्थ तत्त्वशब्देन तत्त्वनिश्चयः साधुजनहृदयविपरिवर्ती गृह्यते तस्य रक्षणं दुर्विदग्धजनजनितविकल्पकल्पनात् इति । ननु तत्त्वरक्षणं जल्पस्य वितण्डाया वा प्रयोजन यदाह " तत्त्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे बीजप्ररोहसंरक्षणार्थं कण्टकशाखापरिचरणवत्" । इति न, वादस्यापि निग्रहस्थानवत्त्वेन तत्त्वसंरक्षणार्थत्वात् न चास्य निग्रहस्थानवत्त्वमासद्धम् । “प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वादः" इति । वादल१ गौतमसूत्र १-२-१। २ गौतमसूत्र ४-२-४८

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136