Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 117
________________ मीमांसा ] सूत्र २-१-२९ आवरणानुपलम्भेप्यनुपलम्भसद्भावात् आवरणानुपलम्भादभावः । तदभावे चावरणोपलब्धर्भावो भवति । ततश्च मृदन्तरितमूलकीलोदकादिवदावरणोपलब्धिकृतमेव शब्दस्य प्रागुच्चारणादग्रहणमिति प्रयत्नकार्यत्वाभावान्नित्यः शब्द इति २१ साध्यधर्मनित्यानित्यत्वविकल्पेन शब्दनित्यत्वापादनं नित्यसमा जातिः । यथाऽनित्यः शब्द इति प्रतिज्ञाते जातिवादी विकल्पयति येयमनित्यता शब्दस्योच्यतेसा किमानत्या नित्या वेति । यद्यनित्या तदियमवश्यमपायिनीत्यनित्यताया अपायानित्यः शब्दः । अथानित्यता नित्यैव तथापि धर्मस्य नित्यत्वात्तस्य च निराश्रयस्यानुपपत्तेस्तदाश्रयभूतः शब्दोऽपि नित्यो भवेत् तदनित्यत्वे तद्धनित्यत्वायोगादित्युभयथापि नित्यः शब्द इति २२ सर्वभावानित्यत्वोपपादनेन प्रत्यवस्थानमनित्यसमा जातिः । यथा घटेन साधर्म्यमनित्येन शब्दस्यास्तीति तस्यानित्यत्वं यदि प्रतिपाद्यते तद् घटेन सर्वपदार्थानामस्त्येव किमपि साधर्म्यमिति तेषामप्यनित्यत्वं स्यात् । अथ पदार्थान्तराणां तथाभावेऽपि नित्यत्वं तर्हि शब्दस्यापि तन्माभूदिति अनित्यत्वमात्रापादनपूर्वकविशेषोद्भावनाच्चाविशेषसमातो भिन्नेयं जातिः २३ प्रयत्नकार्यनानात्वोपन्यासेन प्रत्यवस्थानं कार्यसमा जातिः । यथाऽनित्य शब्दः प्रयत्नानन्तरीयकत्वादित्युक्ते जातिवाद्याह प्रयत्नस्य द्वैरूप्यं दृष्टं किंचिदसदेव तेन जन्यते यथा घटादि । किंचित्सदेवावरणव्युदासादिनाभिव्यज्यते यथा मृदन्तरितमूलकीलादि । एवं प्रयत्नकार्यनानात्वादेष प्रयत्नेन शब्दो व्यज्यते जन्यते वति संशयति संशयापादनप्रकारभेदाच संशयसमातः कार्यसमा जातिर्भिद्यते २४ तदेवमुद्भावनविषयविकल्पभेदेन जातीनामान्त्येऽप्यसङ्कीर्णोदाहरणविवक्षया चतुर्विशतिर्जातिभेदा एते दर्शिताः । प्रतिसमाधानं तु सर्वजाती१ नावरणानुपलम्भसद्भावात् आवरणानुपलब्धेश्चानुपलम्भात् ' इति क्वचित्पाठः । १२

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136