Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
मीमांसा ].
सूत्र २-१-२९ Hदृष्टान्ते चोपलखण्डे सत्यामाप सह निवृत्तौ प्रतिबन्धाभावेनान्वयव्यतिरेकयोरभाव इत्यनन्वयाव्यतिरेको तौ कस्मादिह नोक्तौ । उच्यते । ताभ्यां पूर्वे न भिद्यन्त इति साधर्म्यवैधाभ्यां प्रत्येकमष्टावेव दृष्टान्ताभासा भवन्ति । यदाहुः, " लिङ्गास्यानन्वया अष्टावष्टावव्यतिरेकिणः । नान्यथानुपपन्नत्वं कथंचित् ख्यापयन्त्यमी ॥१॥" इति ॥ २७ ॥ अवसितं परार्थानुमानमिदानीं तन्नान्तरीयकं दृषणं लक्षयति
॥ साधनदोषोद्भावनं दूषणम् ॥२-१-२८ ॥ साधनस्य परार्थानुमानस्य येऽसिद्धविरुद्धादयो दोषाः पूर्वमुक्तास्तेपामुद्भासते प्रकाश्यतेऽनेनेत्युद्भावनं साधनदोषोद्भावकं वचनं दूषणम् । उत्तरत्राभूतग्रहणादिह भूता दोषोद्भावनादृषणेति सिद्धम् ॥ २८ ॥
दूषणलक्षणे दूषणाभासलक्षणं सुज्ञानमेव भेदप्रतिपादनार्थ तु तल्लक्षणमाह
॥ अभूतदोषोद्भावनानि दूषणाभासा जात्यु
त्तराणि ॥२-१-२९॥ अविद्यमानानां साधनदोषाणां प्रतिपादनान्यदृषणान्याप दूषणवदाभासमानानि दूषणाभासाः । तानि च जात्युत्तरााण । जातिशब्दः सादृश्यवचनः उत्तरसदृशानि जात्युत्तराणि उत्तरस्थानप्रयुक्तत्वात् । उत्तरसदृशानि जात्युत्तराणि जात्या सादृश्यनोत्तराणि जात्युत्तराणि । तानि च सम्यग्घेतौ हेत्वाभासे वा वादिना प्रयुक्ते झटिति तदोषतत्त्वाप्रतिभासे हेतुप्रतिबिम्बनप्रायाणि प्रत्यवस्थानान्यनन्तत्वात्परिसङ्ख्यातुं न शक्यन्ते । तथाप्यक्षपाददर्शितदिशा साधादिप्रत्यवस्थानभेदेन साधर्म्यवैधोत्कर्षापकर्षवर्ध्यावर्ण्यविकल्पसाध्यप्राप्त्यप्राप्तिप्रसङ्गप्रतिदृष्टान्तानुत्पत्तिसंशयप्रकरणहेत्वर्था
१ गौतमसूत्र ५-१-१।

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136