Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 110
________________ सूत्र २-१-२१ [ प्रमाण उदाहृतास्त उक्तलक्षण एवान्तर्भवन्ति । पक्षत्रयव्यापको यथाऽनित्यः शब्दः प्रमेयत्वात् । पक्षसपक्षव्यापको विपक्षकदेशवृत्तिर्यथा गौरयं विषाणित्वात्, पक्षविपक्षव्यापकः सपक्षकदेशत्तिर्यथा नायं गौरविषाणित्वात् । पक्षव्यापकः सपक्षविपक्षैकदेशत्तिर्यथाऽनित्यः शब्दः प्रत्यक्षत्वात् । पक्षकदेशत्तिः सपक्षविपक्षब्यापको यथा न द्रव्याण्याकाशकालदिगात्ममनांसि क्षणिकविशेषगुणरहितत्वात् । पक्षविपक्षैकदेशवृत्तिः सपशव्यापी यथा न द्रव्याणि दिकालमनांस्यमूर्तत्वात् । पक्षसपकदेशत्तिर्विपक्षव्यापी। यथा द्रव्याणि दिक्कालमनांस्यमूर्तत्वात् । पक्षत्रयैकदेशत्तिर्यथाऽनित्या पृथ्वी प्रत्यक्षत्वा दिति ॥ २१॥ उदाहरणदोषानाह॥ साधर्म्यवैधाभ्यामष्टावष्टौ दृष्टान्ताभासाः ॥२-१-२२॥ परार्थानुमानप्रस्तावादुदाहरणदोषा एवैते दृष्टान्तप्रभवत्वात्तु दृष्टान्तदोषा इत्युच्यन्ते । दृष्टान्तस्य च साधर्म्यवैधर्म्यभेदेन द्विविधत्वात् प्रत्येकमष्टावष्टौ दृष्टान्तवदाभासमाना दृष्टान्ताभासा भवन्ति ॥ २२ ॥ तानेवोदाहरति विभजात च॥ अमूर्तत्वेन नित्ये शब्दे साध्ये कर्मपरमाणुघटाः साध्यसाधनोभयविकलाः ॥ २-१-२३॥ नित्यः शब्दोऽमूर्तत्वादित्यस्मिन् प्रयोगे कर्मादयो यथासङ्घयं साध्यादिविकलाः । तत्र कर्मवदिति साध्यविकलः अनित्यत्वात् कर्मणः । परमाणुवदिति साधनविकलः मूर्तत्वात् परमाणूनाम् । घटवादिति साध्यसाधनोभयविकलः अनित्यत्वान्मूर्तत्वाच्च घटस्यति । इति त्रयः साधर्म्यदृष्टान्ताभासाः ॥ २३ ॥ १ 'त्रयोंऽपि ' इति क्वचित्पाठः ।

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136