Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 107
________________ मीमांसा ] ७९ सूत्र २-१-१८ म्बद्धमनुन्मत्तोऽभिदधीतेति ॥१६॥ तत्रासिद्धस्य लक्षणमाह॥ नासन्ननिश्चितसत्त्वो वाऽन्यथानुपपन्न इति सत्त्वस्यासिद्धौ सन्देहे वासिद्धः॥२-१-१७॥ असन्नविद्यमानो नान्यथानुपपन्नः इति सत्त्वस्यासिद्धौ असिद्धो हेत्वाभासः स्वरूपासिद्ध इत्यर्थः । यथा नित्यः शब्दश्चाक्षुषत्वादिति। अपक्षधर्मत्वादयमसिद्ध इति न मन्तव्यमित्याह नान्यथानुपपन्न इति अन्यथानुपपत्तिरूपहेतुत्वलक्षणविरहादयमासद्धो नापक्षधर्मत्वात्। नहि पक्षधर्मत्वं हेतोर्लक्षणं तदभावेप्यन्यथानुपपत्तिबलाद्धेतुत्वोपपत्तरित्युक्तप्रायम् ॥ भट्टोप्याह " पित्रोश्च ब्राह्मणत्वेन पुत्रब्राह्मणतानुमा। सर्वलोकप्रसिद्धा न पक्षधर्ममपेक्षते॥” इति । तथाऽनिश्चितसत्त्वः सन्दिग्धसत्त्वो नान्यथानुपपन्न इति सत्वस्य सन्देहेप्यसिद्धो हेत्वाभासः सन्दिग्धासिद्ध इत्यर्थः। यथा बाष्पादिभावेन सन्दिह्यमाना धूमलताग्निसिद्धावुपदिश्यमाना यथा वात्मनः सिद्धावपि सर्वगतत्वे साध्ये सर्वत्रोत्पलभ्यमानगुणत्वं प्रमाणाभावादिति ॥१७॥ असिद्धप्रभेदानाह॥वादिप्रतिवाद्युभयभेदाचैतद्भेदाः ॥२-१-१८॥ वादी पूर्वपक्षस्थितः प्रतिवाद्युत्तरपक्षस्थितः उभयं द्वावेव वादिप्रतिवादिनौ । तद्भेदादसिद्धस्य भेदस्तत्र वाद्यसिद्धो यथा परिणामी शब्द उत्पत्तिमत्त्वात् अयं साङ्ख्यस्य स्वयं वादिनोऽसिद्धः । तन्मते उत्पतिमत्त्वस्यानभ्युपेतत्वात् नासदुत्पद्यते नापि सद्विनश्यत्युत्पादविनाशयोराविर्भावतिरोभावरूपत्वादिति तत्सिद्धान्ताच्च । १ 'भेदः' इत्यपि क्वचित्पठाः ।

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136