Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 105
________________ मीमांसा ] सूत्र २-१-१५ णाय प्रथमं पदम् । अव्याप्तवचने हेतुत्वनिराकरणाय द्वितीयमिति । स द्विविधस्तथोपपत्त्यन्यथानुपपत्तिभ्याम्, तद्यथा धूमस्य तथैवोपपत्तेर्धूमस्यान्यथानुपपत्तेर्वेति ॥ १२ ॥ ७७ उदाहरणं लक्षयति ॥ दृष्टान्तवचनमुदाहरणम् ॥२- १ - १३ ॥ दृष्टान्त उक्तलक्षणस्तत्प्रतिपादकं वचनमुदाहरणं तदपि द्विविधं दृष्टान्तभेदात् साधनधर्मप्रत्युक्तसाध्यधर्मयोगी साधर्म्यदृष्टान्तस्तस्य वचनं साधम्र्योदाहरणम्, यथा यो धूमवान् सोऽग्निमान् यथा महानसप्रदेशः साध्यधर्मनिवृत्तिप्रयुक्तसाधनधर्मनिवृत्तियोगी वैधर्म्य - दृष्टान्तस्तस्य वचनं वैधम्र्योदाहरणम्, यथा योऽग्निनिवृत्तिमान् स धूमनिवृत्तिमान् यथा जलाशयप्रदेश इति ॥ १३ ॥ उपनयलक्षणमाह ॥ धर्मिणि साधनस्योपसंहार उपनयः ॥२- १ - १४॥ दृष्टान्तधर्मिणि विप्रसृतस्य साधनधर्मस्य साध्यधामणे य उपसंहारः स उपनयः उपसंह्रियतेऽनेनोपनीयतेऽनेनेतिवचनरूपः, यथा धूमवांश्चायमिति ॥ १४ ॥ निगमनं लक्षयति ॥ साध्यस्य निगमनम् ||२-१-१५॥ साध्यधर्मस्य धर्मिण्युपसंहारो निगम्यते पूर्वेषामवयवानामर्थोऽनेनेति निगमनम्, यथा तस्मादग्निमानिति । एते नान्तरीयकत्वप्रतिपादका वाक्यैकदेशरूपाः पञ्चावयवाः । एतेषामेव शुद्धयः पञ्च । यतो न शङ्कितसमारोपितदोषाः पञ्चाप्यवयवाः स्वां स्वामनादिनवा - मर्थविषयां धियमाधातुमलमिति प्रतिज्ञादीनां तं तं दोषमाशङ्कय तत्तत्परिहाररूपाः पञ्चैव शुद्धयः प्रयोक्तव्या इति दशावयवमिदमनुमानवाक्यं बोध्यानुरोधात् प्रयोक्तव्यमिति ॥ १५ ॥

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136