Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 106
________________ सूत्र २-१-१६ ७८ [ प्रमाण इह शास्त्रे येषां लक्षणमुक्तं तल्लक्षणाभावे तदाभासाः सुप्रसिद्धा एव । यथा प्रमाणसामान्यलक्षणाभावे संशयविपर्ययानध्यवसायाः प्रमाणाभासाः, संशयादिलक्षणाभावे संशयाद्याभासाः , प्रत्यक्षलक्षणाभावे प्रत्यक्षाभासः, परोक्षान्तर्गतानां स्मृत्यादीनां स्वस्वलक्षणाभावे तत्तदाभासतेत्यादि । एवं हेतूनामपि स्वलक्षणाभावे हेत्वाभासता सुज्ञानव । केवलं हेत्वाभासानां सङ्ख्यानियमः प्रतिव्यक्तिनियतं लक्षणं च नेषत्करप्रतिपत्तीति तल्लक्षणार्थमाह॥ असिद्धविरुद्धानेकान्तिकास्त्रयो हेत्वाभासाः ॥२-१-१६॥ · अहेतवो हेतुवदाभासमाना हेत्वाभासा असिद्धादयः । यद्यपि साधनदोषा एवैते दुष्टे साधने तदभावात् तथापि साधनाभिधायके हेतावुपचारात् पूर्वाचार्यैरभिहितास्ततस्तत्प्रसिद्धिवाधामनाश्रयद्भिरस्माभिरपि हेतुदोषत्वेनैवोच्यन्त इति । त्रय इति संख्यान्तरव्यवच्छेदार्थम् । तेन कालातीतप्रकरणसमयोर्व्यवच्छेदः । तत्र कालातीतस्य पक्षदोषेष्वन्तर्भावः।"प्रत्यक्षागमबाधितधर्मिनिर्देशानन्तरप्रयुक्तः कालात्ययापदिष्ट" इति हि तस्य लक्षणमिति । यथाऽनुष्णस्तेजोऽवयवी कृतकत्वाद् घटवदिति । प्रकरणसमस्तु न सम्भवत्येव । नास्ति सम्भवो यथोक्तलक्षणेऽनुमाने प्रयुक्तेऽदृषिते वाऽनुमानान्तरस्य । यत्तूदाहरणमनित्यः शब्दः पक्षसपक्षयोरन्यतरत्वादित्येकेनोक्ते द्वितीय आह नित्यः शब्दः पक्षसपक्षयोरन्यतरत्वादिति । तदती वासाम्प्रतम् । को हि चतुरङ्गसभायां वादी प्रतिवादी चैवंविधमस १ न किंचिदुपयोगि । अपित्वत्यन्तोपयोगीत्यर्थः । २ 'चानुमानान्तरस्य' इति पाठः । ३ वादी १ प्रतिवादी २ तटस्थाः ३ मध्यस्थः ४ इतिचतुरवयवविशिष्टा सभा । साधु १ साध्वी २ श्रावक ३ श्राविका ४ इत्यपि परिभाषिकः चतुरङ्गसभाया अर्थः । परं सोऽत्र वादसभायामनुपयुक्तः ।

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136