Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 75
________________ मीमांसा ] सूत्र १-१-४० कथमस्य प्रमाणत्वं करणं हि तत् । साधकतमं च करणमुच्यते । अव्यवहितफलं तदित्याह॥ तस्यां सत्यामर्थप्रकाशसिद्धेः ॥ १-१-३८॥ तस्यामिति कर्तृस्थायां प्रमाणरूपायां क्रियायां सत्यामर्थप्रकाशस्य फलस्य सिद्धेर्व्यवस्थापनात् एकज्ञानगतत्वेन प्रमाणफलयोरभेदो व्यवस्थाप्यव्यवस्थापकभावात्तु भेद इति भेदाभेदरूपः स्याद्वादमबाधितमनुपतात प्रमाणफलभाव इतीदमाखिल प्रमाणसाधारणमव्यवहितं फलमुक्तम् ॥ ३८ ॥ अव्यवहितमेव फलान्तरमाह ॥अज्ञाननिवृचिर्वा ॥ १-१-३९ ॥ प्रमाणप्रवृत्तेः पूर्व प्रमातुर्विक्षिते विषये यदज्ञानं तस्य निवृत्तिः फलमित्यन्ये । यदाहुः "प्रेमाणस्य फलं साक्षादज्ञानविनिवर्तनम् । केवलस्य सुखोपेक्षे शेषस्यादानहानधीः॥" इति ॥ ३९॥ व्यवहितमाह॥ अवग्रहादीनां वा क्रमापेक्षजननधर्माणां पूर्वं पूर्व प्रमाणमुत्तरमुत्तरं फलम् ॥ १-१-४०॥ अवग्रहहावायधारणास्मृतिप्रत्यभिज्ञानोहानुमानानां क्रमेणोपजायमानानां यद्यत् पूर्व तत्तत्प्रमाणं यद्यदुत्तर तत्तत्फलरूपं प्रतिपत्तव्यम् । अवग्रहपरिणामवान् ह्यात्मा ईहारूपफलतया परिणमति । इतीहाफलापेक्षया अवग्रहः प्रमाणम् । ततोऽपीहा प्रमाणमवायः फलम् । पुनरवायः प्रमाणं धारणा फलम् । ईहाधारणयोोनोपादानत्वात् ज्ञानरूपत्तोनेया । ततो धारणा प्रमाणं स्मृतिः १ न्यायावतारश्लोक २८ ।

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136