Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 101
________________ मीमांसा ] ७३ सूत्र २-१-७ विशेषः । एतदुक्तं भवत्यन्यदभिधेयं शब्दस्यान्यत्प्रकाश्यं प्रयोजनं तत्राभिधेयापेक्षया वाचकत्वं भिद्यते । प्रकाश्यं त्वभिन्नमन्वये कथिते व्यतिरेकगतिर्व्यतिरेके चान्वयगतिरित्युभयत्रापि साधनस्य साध्याविनाभावः प्रकाश्यते । न च यत्राभिधेयभेदस्तत्र तात्पर्यभेदोऽपि । नहि पनिो देवदत्तो दिवा न भुङ्क्ते पीनो देवदत्तो रात्रौ भुङ्क्ते इत्यनयोर्वाक्ययोरभिधेयभेदोऽस्तीति तात्पर्येणापि भेत्तव्यमिति भावः ॥५॥ तात्पर्याभेदस्यैव फलमाह ॥ अत एव नोभयोः प्रयोगः ॥ २-१-६ ॥ यत एव नानयोस्तात्पर्ये भेदोऽत एव नोभयोर्यथोपपत्त्यन्यथानुपपत्त्योर्युगपत्प्रयोगो युक्तः । व्याप्युपदर्शनाय हि तथोपपत्त्यन्यथानुपपत्तिभ्यां हेतोः प्रयोगः क्रियते व्याप्युपदर्शनं चैकयैव सिद्धमिति विफलो द्वयोः प्रयोगः यदाह, "हेतोस्तथोपपत्त्या वा स्यात्मयोगोऽन्यथापि वा । द्विविधोऽन्यतरेणापि साध्यसिद्धि - र्भवेदिति " ॥ ६ ॥ ननु यद्येकेनैव प्रयोगेण हेतोर्व्याप्त्युपदर्शनं कृतमिति कृतं विफलेन द्वितीयप्रयोगेण तर्हि प्रतिज्ञाया अपि माभूत् प्रयोगो विफलत्वात् । नहि प्रतिज्ञामात्रात् कश्चिदर्थं प्रतिपद्यते । तथा सति हि विप्रतिपत्तिरेव न स्यादित्याह ॥ विषयोपदर्शनार्थं तु प्रतिज्ञा ॥ २-१-७ ॥ विषयो यत्र तथोपपत्त्यान्यथानुपपत्त्या वा हेतु: स्वसाधनाय प्रार्थ्यते तस्योपदर्शनं परप्रतीतावारोपणं तदर्थं पुनः प्रतिज्ञा प्रयोक्तव्योति शेषः । अयमर्थः । परप्रत्यायनाय वचनमुच्चारयता प्रेक्षावता तदेव परे बोधयितव्या यद्भुभुत्सन्ते । तथा सत्यनेन बुभुत्सिताभि १ न्यायावतार श्लोक १७ । C स्वसाध्यसाधनाय ' इति क्वचित्पाठः । १०

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136