Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
मीमांसा
सूत्र २-१-२ साधनधर्मेण प्रयुक्तो न तु काकतालीयो यः साध्यो धर्मस्तद्वान् साधर्म्यदृष्टान्तः । यथा कृतकत्वेनानित्ये शद्धे साध्ये घटादिः॥२२॥ वैधर्म्यदृष्टान्तं व्याचष्टे । ॥ साध्यधर्मनिवृत्तिप्रयुक्तसाधनधर्मनिवृत्चियोगी
वैधर्म्यदृष्टान्तः ॥ १-२-२३॥ साध्यधर्मनिवृत्त्या प्रयुक्ता न यथाकथंचिद्या साधनधर्मनिवृत्तिस्तद्वान् वैधर्म्यदृष्टान्तः । यथा कृतकत्वेनानित्ये शब्दे साध्ये आकाशादिरिति ॥ २३॥
इत्याचार्यश्रीहेमचन्द्रविरचितायाः प्रमाणमीमांसायास्तद्वृत्तेश्च प्रथमस्याध्यायस्य द्वितीयमाह्निकम् ॥
॥प्रथमोऽध्यायः समाप्तः ॥ लक्षितं स्वार्थमनुमानमिदानी क्रमप्राप्तं परार्थमनुमानं लक्षयति॥ यथोक्तसाधनाभिधानजः परार्थम् २-१-१॥ ...यथोक्तं सुनिश्चितसाध्याविनाभावैकलक्षणं यत्साधनं तस्याभिधानम् । अभिधीयते परस्मै प्रतिपाद्यते अनेनेत्यभिधानं वचनं तस्माजातः सम्यगर्थनिर्णयः परार्थमनुमानं परोपदेशापेक्षं साध्यविज्ञानमित्यर्थः॥१॥ ननु वचनं परार्थमनुमानमित्याहुस्तत्कथमित्याह
॥वचनमुपचारात् ॥२-१-२॥ अचेतनं हि वचनं न साक्षात्ममितिफलहेतुरिति न निरुपचरित१ काकागमनमिव तालीपतनमिवेति काकतालीयः । अयमर्थः । यथा तालवृक्षस्याधस्तात् यदृच्छया काकस्यागमनं तत्पुरस्तात् तालफलस्य पतनमयत्नतस्तस्य फलस्य विभेदी दूरपतितत्वात् । ततश्च काकेन तत्फलभक्षणम् । एताः सर्वाः क्रिया अयत्नत एव समभूवंस्तद्वदिति ।

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136