Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 98
________________ सूत्र १-२-१९ ७० [प्रमाण नापि द्वितीयः । विपक्षे बाधकाविनाभावादेवार्थिनाभावग्रहणात् । किं च व्यक्तिरूपो दृष्टान्तः । स कथं साकल्येन व्याप्तिं गमयेत् । व्यक्तयन्तरेषु व्याप्त्यर्थ दृष्टान्तान्तरं मृग्यम् । तस्यापि व्यक्तिरूपत्वेन । साकल्येन व्यारवंधारयितुमशक्यत्वादपरापरदृष्टान्तापेक्षायामनवस्था स्यात् । नापि तृतीयः । गृहीतसम्बन्धस्य साधनदर्शनादेव व्याप्तिस्मृतेः । अगृहीतसम्बन्धस्य दृष्टान्तेऽप्यस्मरणात् । उपलब्धिपूर्वकत्वात् स्मरणस्येति ॥ १९ ॥ दृष्टान्तस्य लक्षणमाह ॥स व्याप्तिदर्शनभूमिः ॥ १-२-२०॥ स इति दृष्टान्तो लक्ष्यं व्याप्तिर्लक्षितरूपा दर्शनं परस्मै प्रतिपादनं तस्य भूमिराश्रय इति लक्षणम् । ननु यदि दृष्टान्तोऽनुमानाङ्गं न भवति तर्हि किमर्थं लक्ष्यते । उच्यते । परार्थानुमाने बोध्यानुरोधादादादिकस्योदाहरणस्यानुज्ञास्यमानत्वात् । तस्य च दृष्टान्ताभिधान-. रूपत्वादुपपन्नं दृष्टान्तस्य लक्षणम् । प्रमातुरपि कस्यचित् दृष्टान्तदृष्टबहि ाप्तिबलेनान्ताप्तिपातपत्तिर्भवताति स्वार्थानुमानपर्वण्याप दृष्टान्तलक्षणं नानुपपन्नम् ॥ २०॥ तद्विभागमाह॥ स साधर्म्यवैधाभ्यां बेधा ॥ १-२-२१॥ स दृष्टान्तः साधर्म्यणान्वयेन वैधपेण च व्यतिरेकेण भवतीति द्विप्रकारः ॥ २१ ॥ साधर्म्यदृष्टान्तं विभजते । ॥ साधनधर्मप्रयुक्तसाध्यधर्मयोगी साधर्म्यदृष्टान्तः ॥१-२-२२॥ १ 'बाधकाविनाभावग्रहणात् ' इति क्वचित्पाठः । २ ' अवयवादिकस्य ' इति क्वचित्पाठः ।

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136