Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 96
________________ सूत्र १-२- १६ ६ ८ [प्रमाण धर्मिस्वरूपनिरूपणायाह॥ धर्मी प्रमाणसिद्धः ॥ १-२-१६॥ प्रमाणैः प्रत्यक्षादिभिः प्रसिद्धो धर्मी भवति । यथाग्निमानयं देशः इत्यत्र हि देशः प्रत्यक्षेण सिद्धः । एतेन सर्व एवानुमानानुमेयव्यवहारो बुद्धयारूढेन धर्मधामन्यायेन न बहिःसदसत्त्वमपेक्षत इति सौगतं मतं प्रतिक्षिपति । नहीयं विकल्पबुद्धिरन्तर्बहिर्वाऽनासादितालम्बना धर्मिणं व्यवस्थापयति । तदवास्तवत्वे तदाधारसाध्यसाधनयोरपि वास्तवत्वानुपपत्तेः । तदबुद्धेः पारम्पर्येणापि वस्तुव्यवस्थापकत्वायोगात् । ततो विकल्पेनानेन वा व्यवस्थापितः पर्वतादिर्विषयभावं भजन्नेव धर्मिता प्रतिपद्यते । तथा च सति प्रमाणसिद्धस्य धर्मिता युक्तैव ॥१६॥ अपवादमाह ॥ बुद्धिसिद्धोऽपि ॥ १-२-१७॥ नैकान्तेन प्रमाणसिद्ध एव धर्मी भवति किं तु विकल्पबुद्धिप्रसिद्धोऽपि धर्मी भवति । अपि शब्देन प्रमाणबुद्धिभ्यामुभाभ्यायामपि सिद्धोधर्मी भवतीति दर्शयति । तत्र बुद्धिसिद्ध धर्मिणि साध्यधर्मः सत्त्वमसत्त्वं च प्रमाणवलेन साध्यते । यथाऽस्ति सर्वज्ञो नास्ति षष्ठं भूतमिति । ननु धर्मिणि साक्षादसाति भावाभावोभयधर्माणामसिद्धविरुद्धानैकान्तिकत्वेनानुमानविषयत्वायोगात् कथं सत्त्वासत्त्वयोः साध्यत्वम् । तदाह-" नासिद्धे भावधर्मोऽस्ति व्यभिचार्युभयाश्रयः। विरुद्धधर्मो भावस्य सा सत्ता साध्यते कथम् ॥” इति । मैवम् । मानसप्रत्यक्षे भावरूपस्यैव धर्मिणः प्रतिपन्नत्वात् । न च तत्सिद्धौ तत्सत्त्वस्यापि प्रतिपन्नत्वाद्ध्यर्थमनुमानम् तदभ्युपेतमपि वैयात्यायो न प्रतिपद्यते तं प्रत्यनुमानस्य साफल्यात् । न

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136