Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 78
________________ सूत्र १-२-१ ५० [ प्रमाण इहोद्दिष्टे प्रत्यक्ष परोक्षलक्षणे प्रमाणद्वये लाक्षतं प्रत्यक्षम् । इदानीं परोक्षलक्षणमाह ॥ अविशदः परोक्षम् ॥ १-२-१॥ सामान्यलक्षणानुवादेन विशेषलक्षणविधानात् सम्यगर्थनिर्णय इत्यनुवर्तते । तेनाविशदः सम्यगर्थनिर्णयः परोक्षप्रमाणमिति ॥१॥ विभागमाह ॥ स्मृतिप्रत्यभिज्ञानोहानुमानागमास्तद्विधयः ॥ १-२-२ ॥ तादति परोक्षस्य परामर्शस्तेन परोक्षस्यैते प्रकारा न तु स्वतन्त्राणि प्रमाणान्तराणि प्रक्रान्तप्रमाणसङ्ख्याविघातप्रसङ्गात् । ननु स्वतन्त्राण्येव स्मृत्यादीनि प्रमाणानि किं नोच्यन्ते किमनेन द्रविडेमण्डकभक्षणन्यायेन । मैवं वोचः । परोक्षलक्षणसङ्ग्रहीतानि परोक्षप्रमाणान्न विभेदवर्तानि । यथैव हि प्रत्यक्षलक्षणसङ्ग्रहीT तानीन्द्रियज्ञानमानसस्वसंवेदनयोगिज्ञानानि सौगतानां न प्रत्यक्षादतिरिच्यन्ते । तथैव हि परोक्षलक्षणाक्षिप्तानि स्मृत्यादीनि न मूलप्रमाणसङ्ख्यापरिपन्थीनी इति स्मृत्यादीनां पञ्चानां द्वन्द्वः ॥ २ ॥ तत्र स्मृतिं लक्षयति— ॥ वासनोद्बोधहेतुका तदित्याकारा स्मृतिः ॥ १-२-३ ॥ वासना संस्कारस्तस्या उद्बोधः प्रबोधस्तद्धेतुका तन्निबन्धना १ द्रविडदेशस्था हि सर्वमन्नमेकीकृत्य भुञ्जते सुरसान्नं मण्डकमपि तत्रैव मिश्रयन्ति तेन मण्डस् स्वरुचिविघातस्तद्वदित्यर्थः ।

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136