Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
मीमांसा ]
सूत्र १-२-३ . "कालमसंखं संखं च धारणा होइ नायव्वा” इति वचनाचिरकालस्थायिन्याप वासनाऽनुद्बुद्धा न स्मृतिहेतुः । आवरणक्षयोपशमसदृशदर्शनादिसामग्रीलब्धप्रबोधा तु स्मृतिं जनयतीति वासनोद्बोधहेतुकेत्युक्तम् । अस्या उल्लेखमाह तदित्याकारा सामान्योक्तौ नपुंसकनिर्देशस्तेन स घटः सा पटी तत्कुण्डलमित्युल्लेखवती मतिः स्मृतिः । सा च प्रमाणम् । अविसंवादित्वात् । स्वयं निहितप्रत्युन्मार्गणादिव्यवहाराणां दर्शनात् । नन्वनुभूयमानस्य विषयस्याभावानिरालम्बना स्मृतिः कथं प्रमाणम् । नैवम् । अनुभूतेनार्थेन सालम्बनत्वोपपत्तेः । अन्यथा प्रत्यक्षस्याप्यनुभूताविषयत्वादप्रामाण्यं प्रसज्येत । स्वविषयावभासनं स्मृतरप्यविशिष्टम् । विनष्टो विषयः कथं स्मृतेर्जनकस्तथाचार्थाजन्यत्वान्न प्रामाण्यमस्या इति चेत् । तत् किं प्रमाणान्तरेऽप्यर्थजन्यत्वमविसंवादहेतुरिति विप्रलब्धोऽसि । मैवं मुहः । यथैव हि प्रदीपः स्वसामग्रीबललब्धजन्मा घटादिभिरजनितोऽपि तान् प्रकाशयति तथैवावरणक्षयोपशमसव्यपेक्षेन्द्रियानिन्द्रियबललब्धजन्म संवेदनं विषयमवभासयति । नाननुकृतान्वयव्यतिरेकं कारणं, नाकारणं विषय इति तु प्रलापमात्रम् । योगिज्ञानस्पतीतानागतार्थगोचरस्य तदजन्यस्यापि प्रामाण्यं प्रति विप्रतिपत्तेरभावात् । किं च स्मृतेरप्रामाण्येऽनुमानाय दत्तो जलाञ्जलिः। तया व्याप्तेरविषयीकरणे तदुत्थानायोगात् । लिङ्गग्रहणसम्बन्धस्मर
१ अस्याः पूर्वार्धम्-' उग्गहो एक्कं समयं ईहा-वाया मुहुत्तमंतं ( मद्धं ) तु'। विशेषावश्यकगाथा ३३३ । संस्कृतछाया-अवग्रह एकं समयमीहाऽपायौ मुहूर्तान्तस्तु । कालमसंख्यं संख्यं च धारणा भवति ज्ञातव्या ॥ ३३३ ॥ २ तु स्मृतिमित्यत्र- अनुस्मृतिम् ' इति पाठः३ अत्र कुण्डमिति क्वचित्पाठः । ४ क्वचित् ' मतिः ' इति नास्ति ।

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136