Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 93
________________ मीमांसा 1 सूत्र १-२-१२ कथञ्चिदव्यतिरेकादगमकत्वमेवं सपक्षैकदेशवृत्तेरपि स्यात् कथञ्चिदनन्वयात् । यदाह “ रूपं यद्यन्वयो हेतोर्व्यतिरेकवदिष्यते । स सपक्षोभयो न स्यादसपक्षोभयो यथा ॥ १ ॥ " सपक्ष एव सत्त्वमन्वयो न सपक्षे सत्त्वमेवेति चेत् । अस्तु । स तु व्यतिरेक एवेत्यस्मन्मतमेवाङ्गीकृतं स्यात् । वयमपि हि प्रत्यपीपदाम । अन्यथानुपपत्त्येकलक्षणो हेतुरिति । तथैकस्मिन्नर्थे दृष्टेऽदृष्टे वा समवाय्याश्रितं साधनं साध्येन । तच्चैकार्थसमवायित्वमेकफलादिगतरूपरसयोः शकटोदयकृत्तिकोदययोश्चन्द्रोदयसमुद्रवृध्द्योर्दृष्टिसाण्डपि - पीलिकाक्षोभयोर्नागवैल्लीदाहपत्रकोचयोः । तत्रैकार्थसमवायी रसो रूपस्य, रूपं वा रसस्य । नहि समानकालभाविनोः कार्यकारणभावः सम्भवति । ननु समानकालकार्यजनकं कारणमनुमास्यते इति चेत् । न तर्हि कार्यमनुमितं स्यात् । कारणानुमानेऽसामर्थ्यात् । कार्यमनुमितमेव जन्याभावे जनकत्वाभावादिति चेत् । हन्तैवं कारणं कार्यस्यानुमापकमित्यनिष्टमापद्येत । शकटोदयकृत्तिकोदयादीनां तु यथाविनाभावं साध्यसाधनभावः । यदाह – “ एकार्थसमवायस्तु यथा येषां तथैव ते । गमकाः गमकस्तत्र शकटः कृत्ति - कोदितेः ॥ १ ॥ " एवमन्येष्वपि साधनेषु वाच्यम् । ननु कृतक1 त्वानित्यत्वयोरेकार्थसमवायः कस्मान्नेष्यते । न । तयोरेकत्वात् । यदाह आद्यन्तापेक्षिणी सत्ता कृतकत्वमनित्यता । एकैव हेतुः साध्यं च द्वयं नैकाश्रयं ततः ॥ १ ॥ " इति । स्वभावादीनां चतुर्णां साधनानां विधिसाधनता । निषेधसाधनत्वं तु विरोधिनः । स हि स्वसन्निधानेनेतरस्य प्रतिषेधं साधयति । 46 ६५ १ ' चेत्' इति क्वचित्पाठः । २ ' तथाचैकाभिन्नार्थदृष्ट्या ' इति कचित्पाठः । ३ ' भागवल्लीदाहपत्रकोथयो: ' इति क्वचित्पाठः ।

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136