Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 81
________________ मीमांसा ] सूत्र १-२-३ प्रमाणान्तरं तेषां वैलक्षण्यादिविषयं प्रमाणान्तरमनुषज्येत । यदाहुः "उपमानं प्रसिद्धार्थसाधर्म्यात् साध्यसाधनम् । तद्वैध ात् प्रमाणं किं स्यात् संज्ञिप्रतिपादनम्॥इदमल्पं महदरमासन्नं प्रांशु नेति वा । व्यपेक्षातःसमक्षेऽर्थे विकल्पः साधनान्तरम्" । इति । अथ साधर्म्यमुपलक्षणं योगविभागो वा करिष्यत इति चेत् । तद्यकुशलः सूत्रकारः स्यात् । सूत्रस्य लक्षणरहितत्वात् , यदाहुः अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम् । अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः"। अस्तोभमनधिकम् । ननु तदिति स्मरणमिदमित प्रत्यक्षमिति ज्ञानद्वयमेव न ताभ्यामन्यत् प्रत्यभिज्ञानाख्यं प्रमाणमुत्पश्यामः । नैतद्युक्तम् । स्मरणप्रत्यक्षाभ्यां प्रत्याभज्ञाविषयस्यार्थस्य ग्रहीतुमशक्यत्वात् । पूर्वापराकारैकधुरीणं हि द्रव्यं प्रत्यभिज्ञानस्य विषयः। न च तत्स्मरणस्य गोचरस्तस्यानुभूतविषयत्वात् । यदाहुः " पूर्वप्रमितमात्रे हि जायते स इति स्मृतिः। स एवायमितीयं तु प्रत्यभिज्ञातिरेकिणी ॥१॥" नापि प्रत्यक्षस्य । तस्य विवर्त्तमात्रवृत्तित्वात् । न च दर्शनस्मरणाभ्यामन्यद ज्ञानं नास्ति । दर्शनस्मरणोत्तरकालभाविनो ज्ञानान्तरस्यानुभूतेः । न चानुभूयमानस्यापलापो युक्तः। अतिप्रसङ्गात् । ननु प्रत्यक्षमेवेदं प्रत्यभिज्ञानमित्येके। नैवम् । तस्य सन्निहितवार्तमानिकाविषयत्वात् “सम्बद्धं वर्तमानं च गृह्यते चक्षुरादिना" इति मा स्म विस्मरः । ततो नातीतवर्तमानयोरेकत्वमध्यक्षज्ञानगोचरः। अथ स्मरणसहकृतमिन्द्रियं तदेक १ प्रवृत्तेति क्वचित्पाठः। २ ' प्रत्यक्षे गोचरस्तस्य । वर्तमानविवर्तमात्रवृत्तित्वात् ' । इति क्वचित्पाठः । ३ मीमांसाश्लोकवार्तिकसूत्र ४ श्लोक ८४ । ..

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136