Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 73
________________ मीमांसा ] सूत्र १-१-३४ द्रव्यरूपेणाभेदः इति द्रव्यमेवाभेदः । एकानेकात्मकत्वाद्वस्तुनः । यौ च सङ्करव्यतिकरौ तौ मेचकज्ञाननिदर्शनेन सामान्यविशेषदृष्टान्तेन च परिहृतौ । अथ तत्र तथाप्रतिभास: समाधानं परस्यापि तदेवास्तु प्रतिभासस्यापक्षपातित्वात् । निर्णीते चार्थे संशयोऽपि न युक्तः तस्य सकम्पप्रतिपत्तौ दुर्घटत्वात् प्रतिपन्ने च वस्तुन्यप्रतिपत्तिरिति साहसम् । उपलब्ध्यभिधानादनुपलम्भोऽपि न सिद्धस्ततो नाभाव इति दृष्टेष्टाविरुद्धं द्रव्यपर्यात्मकं वस्त्विति ॥ ३३ ॥ ननु द्रव्यपर्यायात्मकत्वेऽपि वस्तुनः कथमर्थक्रिया नाम । सा हि क्रमाक्रमाभ्यां व्याप्ता । द्रव्यपर्यायैकान्तवदुभयात्मकादपि व्यावर्त - ताम् । शक्यं हि वक्तुमुभयात्मा भावो न क्रमेणार्थक्रियां कर्तुं समर्थः । समर्थस्य क्षेपायोगात् । न च सहकार्यपेक्षा युक्ता । द्रव्यस्यापि कार्यत्वेन सहकारिकृतोपकारनिरपेक्षत्वात् । पर्यायाणां च क्षणिकत्वेन पूर्वापरकार्यकालाप्रतीक्षणात् । नाप्यक्रमेण युगपद्धि सर्वकार्याणि कृत्वा पुनरकुर्वतोऽनर्थक्रियाकारित्वादसत्त्वं कुर्वतः क्रमपक्षभावी दोषः । द्रव्यपर्यायवादयोश्च यो दोषः स उभयवादेऽपि समानः । “ प्रत्येकं यो भवेद्दोषो द्वयोर्भावे कथं न सः । " इति वचनादित्याह - ४५ ॥ पूर्वोत्तराकारपरिहारस्वीकारस्थितिलक्षणपरिणामेनास्यार्थक्रियोपपत्तिः ॥ १-१-३४ ॥ पूर्वोत्तरयोराकारयोर्विवर्तयोर्यथासङ्घयेन यौ परिहारस्वीकारौ ताभ्यां स्थितिः सैव लक्षणं यस्य स चासौ परिणामश्च । एतेनास्य द्रव्यपर्यायात्मकस्यार्थक्रियोपपद्यते अयमर्थः । न द्रव्यरूपं न पर्यायरूपं नोभयरूपं वस्तु । येन तत्तत्पक्षभावी दोषः स्यात् । किं तु १ दृष्टेइष्टाविरुद्धं दृष्टं च तत् इष्टं च तदविरुद्धं चेति विशेषणत्रयात्मकः कर्मधारयः । २ काल विलम्बाभावात् ।

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136