Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 72
________________ सूत्र १-१-३३ [ प्रमाण विशेषैः पृथिव्यप्तेजोवायूनां, पृथिवीत्वादिभिराकाशादीनां च द्रव्याणां स्वगुणैर्योगे यथायोगं सर्वमभिधानीयम् । एकान्तभिन्नानां केनचित् कथञ्चित् सम्बन्धायोगात् इत्यौलूक्यपक्षेऽपि विषयव्यवस्था । ननु द्रव्यपर्यायात्मकत्वेऽपि वस्तुनस्तदवस्थमेव दौस्थ्यम् । तथाहि द्रव्यपर्याययोरैकान्तिकभेदाभेदपरिहारेण कथञ्चिद्भेदाभेदवादः स्याद्वादिभिरुपेयते । न चासौ युक्तो विरोधादिदोषात् । विधिप्रतिषेधरूपयोरेकत्र वस्तुन्यसम्भवान्नीलानीलवत् । १ अथ केनचिद्रूपेण भेदः केनचिदभेदः । एवं सति भेदस्यान्यदधिकरणमभेदस्य चान्यदिति वैयधिकरण्यम् । २ यं वात्मानं पुरोधाय भेदो यं चाश्रित्याभेदस्ताप्यात्मानौ भिन्नाभिन्नावन्यथैकान्तवादप्रसक्तिस्तथा च सत्यनवस्था ३ येन च रूपेण भेदस्तेन भेदाभेदश्च येन चाभेदस्तेनाप्यभेदश्व भेद सङ्करः । ४ येन रूपेण भेदस्तेनाभेदो येनाभेदस्तेन भेद इति व्यतिकरः । ५ भेदाभेदात्मकत्वे च वस्तुनो विविक्तेनाकारेण निश्चेतुमशक्तेः संशयः । ६ ततश्चाप्रतिपत्तिरिति न विषयव्यवस्था । नैवम् । प्रतीयमाने वस्तुनि विरोधस्यासम्भवात् । यत्सन्निधाने यो नोपलभ्यते स तस्य विरोधीति निश्चीयते । उपलभ्यमाने च वस्तुनि को विरोधगन्धावकाशः | नीलानीलयोरपि यद्येकत्रोपलम्भोऽस्ति तदा नास्ति विरोधः । एकत्र चित्रपटीज्ञाने सौगतैनीलानीलयोर्विरोधाभ्युपगमात्, योगैश्चैकस्य चित्रस्य रूपस्याभ्युपगमात् एकस्यैव पटादेश्वलाचलरक्तारक्तावृतानानृतादिविरुद्धधर्माणामुपलब्धेः प्रकृते को विरोधशङ्कावकाशः । एतेन वैयाधिकरण्यदोषोऽप्यपास्तः । तयोरेकाधिकरणत्वेन प्रागुक्तयुक्तिदिशा प्रतीतेः । यदप्यनवस्थानं दूषणमुपन्यस्तम् । तदप्यनेकान्तवादिमतानभिज्ञेनैव तन्मतम् । द्रव्यपर्यायात्मके वस्तुनि द्रव्यपर्यायावेव भेदः भेदध्वनिका तयोरेवाभिधानात् १ नैयायिकमते । ४४

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136