Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 40
________________ सूत्र १-१-८ [ प्रमाण कालभाविनो व्यवहारजननसमर्थाद्विकल्पात् तस्य प्रामाण्ये याचितकमण्डनन्यायः । वरं च व्यवहार हेतोर्विकल्पस्यैव प्रामाण्यमभ्युपगन्तुम् । एवं हि परम्परा परिश्रमः परिहृतो भवति । विकल्पस्य चाप्रामाण्ये कथं तन्निमित्तो. व्यवहारोऽविसंवादी दृष्टविकल्पयोरर्थयोरेकीकरणेन तैमिरिकज्ञानवत् संवादाभ्युपगमे चोपचरितं संवादित्वं स्यात् । तस्मादनुपचरितमविसंवादित्वं प्रामाण्यस्य लक्षणमिच्छता निर्णयः प्रमाणमेष्टव्य इति ॥ ८ ॥ १२ प्रमाणसामान्यलक्षणमुक्त्वा परीक्ष्य च विशेषलक्षणं वक्तुकामो विभागमन्तरेण तद्वचनस्याशक्यत्वाद्विभागप्रतिपादनार्थमाह ॥ प्रमाणं द्विधा ॥ १-१-९॥ सामान्यलक्षणसूत्रे प्रमाणग्रहणं परीक्षयान्तरितमितिन नंदा परासृष्टम् । किन्तु साक्षादेवोक्तं प्रमाणमिति । द्विधा द्विप्रकारमेव विभागस्यावधारणफलत्वात् । तेन प्रत्यक्षमेवैकं प्रमाणमिति चार्वाकाः । प्रत्यक्षानुमानागमाः प्रमाणमिति वैशेषिकाः। तान्येवेति साङ्ख्याः। सहोपमानेन चत्वारीति नैयायिकाः । सहार्थापत्त्या पश्चेतिः प्राभाकराः । सहाभावेन षडिति भाट्टाः । इति न्यूनाधिकप्रमाणवादिनः प्रतिक्षिप्ताः । तत्प्रतिक्षेपश्च वक्ष्यते ।। ९ ।। तर्हि प्रमाणद्वैविध्यं किं तथा यथाहुः सौगताः प्रत्यक्षमनुमानं चेत्युतान्यथेत्याह १ अस्य न्यायस्य स्वरूपम् । केनचिदकिञ्चनेन याचित्वा परमण्डनानि परगृहे विवाहादिसम्पादनार्थं गम्यते परं न तत् तस्य शोभायै पर्याप्तम् । २ तच्छब्देन । ३ मीमांसकेषु मतत्रयम् १ प्राभाकारं २ भा ३ मुरारिमतञ्च । ४ अभावः - अनुपलब्धिः । ५ १-१-१०, १-१-११, १ - १ - १२ सूत्रेषु ।

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136