Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
सूत्र १-१-११ १४ .. [ प्रमाण पयितुं प्रभवति । तस्माद्यथादृष्टज्ञानव्यक्तिसाधर्म्यद्वारेणेदानीन्तनज्ञानव्यक्तीनां प्रामाण्याप्रामाण्यव्यवस्थापकं परप्रतिपादकं परोक्षान्तर्गतमनुमानरूपं प्रामाणान्तरमुपासीत । अपि च अप्रतिपित्सितमर्थ प्रतिपादयन्नायं लौकिको न परीक्षक इत्युन्मत्तवदुपेक्षणीयः स्यात्। न च प्रत्यक्षेण परचेतोवृत्तीनामधिगमोस्ति । चेष्टाविशेषदर्शनात्तदवगमे च परोक्षस्य प्रामाण्यमनिच्छतोऽप्यायातम् । परलोकादिनिषेधश्च न प्रत्यक्षमात्रेण शक्यः कर्तुम् । सन्निहितमात्रविषयत्वात्तस्य । परलोकादिकं चाप्रतिषिध्य नायं सुखेनास्ते प्रमाणान्तरं च नेच्छतीति डिम्भहेवाकः । किञ्च प्रत्यक्षस्याप्याव्यभिचारादेव प्रामाण्यं तच्चार्थप्रतिबद्धलिङ्गशब्दद्वारा समुन्मजतः परोक्षस्याप्याव्यभिचारादेव किं नेष्यते । व्यभिचारिणोप परोक्षस्य दर्शनादप्रामाण्यमिति चेत् । प्रत्यक्षस्यापि तिमिरादिदोषादप्रामाण्यस्य दर्शनात् सर्वत्राप्रामाण्यप्रसङ्गः । प्रत्यक्षाभासं तदिति चेत् । इत्यत्रापि तुल्यमेतदन्यत्र पक्षपातात् । धर्मकीर्तिरप्येतदाह"प्रमाणेतरसामान्यस्थितेरन्यधियो गतेः। प्रमाणान्तरसद्भावः प्रतिषेधाच कस्यचित् ॥१॥ अर्थस्यासम्भवे भावात् प्रत्यक्षेऽपि प्रमाणता। प्रतिबद्धस्वभावस्य तद्धेतुत्वे समंद्वयम्" ॥२॥ इति यथोक्तसङ्ख्यायोगेऽपि च परोक्षार्थविषयमनुमानमेव सौगतैरुपगम्यते तदयुक्तम् । शब्दादीनामपि प्रमाणत्वात् । तेषां चानुमानेऽन्तर्भावयितुमशक्यत्वात् । एकेन तु सर्वसङ्ग्राहिणा प्रमाणेन प्रमाणान्तरसङ्ग्रहे नायं दोषः । तत्र यथेन्द्रियजमानसात्मसंवेदनयोगिज्ञानानां प्रत्यक्षेण सङ्ग्रहस्तथा स्मृतिप्रत्यभिज्ञानोहानुमानागमानां परोक्षण सङ्ग्रहो लक्षणस्याविशेषात् । स्मृत्यादीनां च विशेषलक्षणानि स्वस्थान एव वक्ष्यन्ते । एवं परोक्षस्योपमानस्य प्रत्यभिज्ञाने अर्थापत्तेरनुमानेऽन्तर्भावोऽभिधास्यते ॥ ११ ॥ १ बालानामाग्रहः । २, १-२-३ सूत्रे। ३, १-२-४ सूत्रे। ४, १-२-७ सूत्रे ।

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136