Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 60
________________ सूत्र १-१-२५ [ प्रमाण पुद्गलद्रव्याणि । भावमनस्तु तदावरणीयकर्मक्षयोपशमात्मा लब्धिरात्मनश्वार्थग्रहणोन्मुखो व्यापारविशेष इति ॥ २५ ॥ नन्वत्यल्पमिदमुच्यते 'इन्द्रियमनोनिमित्त' इति । अन्यदपि हि चक्षुर्ज्ञानस्य निमित्तमर्थ आलोकश्वास्ति । यदाहुः " रूपालोकमनस्कारचक्षुर्यः सम्प्रजायते । विज्ञानं मणिसूर्यांशुगोशकृद्भ्य इवानलः ॥" इत्यत्राह॥नार्थालोको ज्ञानस्य निमित्तव्यतिरेकात् ॥१-१-२६॥ बाह्यो विषयः प्रकाशश्च न चक्षुर्ज्ञानस्य साक्षात्कारणम् । देशकालादिवत्तु व्यवहितकारणत्वं न निवार्यते । ज्ञानावरणादिक्षयोपशमसामग्र्यामारादुपकारित्वेनाञ्जनादिवच्चक्षुरुपकारित्वेन चाभ्युपगमात् । कुतः पुनः साक्षान्न कारणत्वमित्याह-अव्यतिरेकात् व्यतिरेकाभावात् । नहि तद्भावे भावलक्षणोऽन्वय एव हेतुफलभावनिश्चयनिमित्तम् । आप तु तदभावेऽभावलक्षणो व्यतिरेकोऽपि । न चासावलोकयोर्हेतुभावेऽस्ति । मरुमरीचिकादौ जलाभावेऽपि जलज्ञानस्य वृषदंशादीनां चालोकाभावेऽपि सान्द्रतमतमःपटलविलुप्तदशगतवस्तुप्रतिपत्तेश्च दर्शनात् । योगिना चातीतानागतार्थग्रहणे किमर्थस्य निमित्तत्वम् । निमित्तत्वे चार्थक्रियाकारित्वेन सत्त्वादतीतानागतत्वक्षतिः । न च प्रकाश्यादात्मलाभ एव प्रकाशकस्य । प्रकाशकत्वं प्रदीपादेर्घटादिभ्योऽनुत्पन्नस्यापि तत्प्रकाशकत्वदर्शनात् । ईश्वरज्ञानस्य च नित्यत्वेनाभ्युपगतस्य कथमर्थजन्यत्वं नाम । अस्मदादीनामपि जनकस्यैव ग्राह्यत्वाभ्युपगमे स्मृतिप्रत्यभिज्ञानादेः प्रमाणस्याप्रामाण्यप्रसङ्गः। येषां चैकान्तक्षणिकोऽर्थो जनकश्च ग्राह्यत इत्येतद् दर्शनम् । तेषामपि जन्यजनकयोर्जानार्थयोर्भिन्नकालत्वान्न ग्राह्यग्राहकभावः सम्भवति । अथ न जन्यजनकभावातिरिक्तं १ " विलिस" इति पाठान्तरम् ।

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136