Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 66
________________ सूत्र १-१-३० ___३८ ... [प्रमाण स्येन्द्रियाणां बुद्धिजन्म तत् प्रत्यक्षमनिमित्तं विद्यमानोपलम्भनत्वात् ।” इत्यनुवादभङ्ग्या प्रत्यक्षलक्षणमाचक्षते । यदाहुः " एवं सत्यनुवादत्वं लक्षणस्यापि सम्भवेत् ।” इति । व्याचक्षते च-इन्द्रियाणां सम्पयोगे सति पुरुषस्य जायमाना बुद्धिः प्रत्यक्षमिति । अत्र संशयविपर्ययबुद्धिजन्मनोऽपीन्द्रियसंयोगे सति प्रत्यक्षत्वप्रसङ्गादतिव्याप्तिः। अथ सत्सम्पयोग इति सता सम्प्रयोग इति व्याख्यायते तर्हि निरालम्बनविभ्रमा एवार्थनिरपेक्षजन्मानो निरस्ता भवेयुर्न सालम्बनौ संशयविपर्ययौ । अथ सति सम्प्रयोग इति सत्सप्तमी पक्ष एव न त्यज्यते संशयविपर्ययनिरासाय च सम्पयोग इत्यत्र समित्युपसर्गो वर्ण्यते । यदाह संम्यगर्थे च संशब्दो दुष्प्रयोगनिवारणः । दुष्टत्वाच्छुक्तिकायोगो वार्यते रजतेक्षणात् ॥” इति । तथापि प्रयोगसम्यक्त्वस्यातीन्द्रियत्वेन प्रत्यक्षानवगम्यत्वात्कार्यतोऽवगतिर्वक्तव्या । कार्य च ज्ञानम् । न च तदविशेषितमेव प्रयोगसम्यक्त्वावगमनायालम् । न च तद्विशेषणपरमपरामिह पदमस्ति सतां सम्पयोग इति च वरं निरालम्बनविज्ञाननिवृत्तये सतीति तु सप्तम्यैव गतार्थत्वादनर्थकम् । 'येऽपि “ तत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म सत्प्रत्यक्षं यद्विषयं ज्ञानं तेन सम्प्रयोगे इन्द्रियाणां पुरुषस्य बुद्धिजन्म सत्प्रत्यक्षं यदन्यविषयं ज्ञानमन्यसम्प्रयोगे भवति न तत्प्रत्यक्षम् ।” १ श्लोकवार्तिकसूत्र ४ श्लोक ३९ पूर्वार्धम् । २ श्लोकवार्तिकसूत्र ४ श्लोक ३९ उत्तरार्धम् । ३ श्लोकवार्तिकसूत्र ४ श्लोक ३९ उत्तरार्धम् । ४ मीमांसासूत्रवृत्तिकाराः । ५ मीमांसादर्शन पृष्ठ ६ पं. १७ । ६ तेनैव' इति पाठः।

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136