Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
सूत्र १-१-३०
[प्रमाण चइ धारणा होइ" तत्कथं स्मृतिहेतोरेव धारणात्वमसूत्रयः । सत्यम् । अस्त्यविच्युतिर्नाम धारणा । किन्तु साऽवाय एवान्तर्भूतेति न पृथगुक्ता । अवाय एव हि दीर्घदीर्घोऽविच्युतिर्धारणेत्युच्यत इति । स्मृतिहेतुत्वाद्वाऽविच्युतिर्धारणयैव सङ्ग्रहीता। न ह्यवायमात्रादविच्युतिविरहितात् स्मृतिर्भवति । गच्छत्तृणस्पर्शप्रायाणामवायानां परिशीलनविकलानां स्मृतिजनकत्वादर्शनात् । तस्मात् स्मृतिहेतू अविच्युतसंस्कारावनेन सङ्ग्रहीतावित्यदोषः । यद्यपि स्मृतिरपि धारणाभेदत्वेन सिद्धान्तेऽभिहिता तथापि परोक्षप्रमाणभेदत्वादिह नोक्तेति सर्वमवदातस् । इह च क्रमभाविनामध्यवग्रहादीनां कथञ्चिदेकत्वमवसेयम् । विरुद्धधर्माध्यासो ह्येकत्वप्रतिपत्तिपरिपन्थी। न चासौ प्रमाणप्रतिपन्नेऽर्थे प्रत्यर्थितां भजते । अनुभूयते हि खलु हर्षविषादादिविरुद्धविवर्ताक्रान्तमेकं चैतन्यं विरुद्धधर्माध्यासाच्च बिभ्यद्भिरपि कथमेकं चित्रपटीयं ज्ञानमेकानेकाकारोल्लेखशेखरमभ्युपगम्यते सौगतैः चित्रं वा रूपं नैयायिकादिभिरिति ।नैयायिकस्तु 'इंन्द्रियार्थसन्निकर्षात्पन्नं ज्ञानमव्यपदेशमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम् ' इति प्रत्यक्षलक्षणमीक्षन्ते । अत्र च पूर्वाचार्यकृतव्याख्यावैमुख्येन सङ्ख्यावद्भिस्त्रिलोचनवाचस्पतिप्रमुखैरयमर्थः समर्थितो यथेन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यभिचारि प्रत्यक्षमित्येवं प्रत्यक्षलक्षणं यतः शब्दाध्याहारेण च यत्तदोर्नित्याभिसम्बन्धादुक्तविशेषणविशिष्टं ज्ञानं यतो भवति तत्तथाविधज्ञानसाधनं ज्ञानरूपमज्ञानरूपं वा प्रत्यक्षं प्रमाणामिति । अस्य च फलभूतस्य द्वयी गतिरविकल्पकं सविकल्पकं वा । तयोरुभयोरपि प्रमाणरूपत्वमाभिधातुं विभागवचनमेतदव्यपदेश्यं व्यवसायात्मकमिति । तत्रोभयरूपस्यापि ज्ञानस्य प्रामाण्यमुपेक्ष्य यतः शब्दाध्याहारक्ले१ गौतमसूत्र १-१-४।

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136