Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 68
________________ सूत्र १-१-३१ [ प्रमाण प्रमाणसामान्यग्रहणं प्रत्यक्षवत् प्रमाणान्तराणामपि विषयादिलक्षणमिहैव वक्तुं युक्तमविशेषात्तथा च लाघवमपि भवतीत्येवमर्थम् । जातिनिर्देशाच्च प्रमाणानां प्रत्यक्षादीनां विषयो गोचरो द्रव्यपर्यायात्मकं वस्तु । द्रवति तांस्तान् पर्यायान् गच्छति इति द्रव्यं धौव्य1 लक्षणम् । पूर्वोत्तरविवर्त्तवर्त्यन्वयप्रत्ययसमधिगम्यमूर्ध्वतासामान्यमिति यावत् । परियन्त्युत्पादविनाशधर्माणो भवन्तीति पर्याया विवर्त्ताः । तच्च ते चात्मा स्वरूपं यस्य तद्रव्यपर्यायात्मकं वस्तु परमार्थसदित्यर्थः । यद्वाचकमुख्यः “ उत्पादव्ययधौव्ययुक्तं सद् " इति पारमर्षमपि “ उपणे इवा विगमे इवा धुवे इवा ” इति । तत्र द्रव्यपर्यायग्रहणेन द्रव्यैकान्तपर्यायैकान्तवादिपरिकल्पितविषयव्युदासः । आत्मग्रहणेन चान्तव्यतिरिक्तद्रव्यपर्यायवादिकाणादयोगाभ्युपगतविषयनिरासः । यच्छ्रीसिद्धसेनः " 3 46 दोहिं वि नएहिं नीयं, - सत्थमलूण्ण तहवि मिच्छत्तं । जं सविसयप्पहाण, तणेण अन्ननिरविक्खा " ॥ ३१ ॥ कुतः पुनर्द्रव्यपर्यायात्मकमेव वस्तु प्रमाणानां विषयो न द्रव्यमात्रं पर्यायमात्रमुभयं वा स्वतन्त्रमित्याह ४० ॥ अर्थक्रियासामर्थ्यात् ॥ १-१-३२ ॥ अर्थस्य हानोपादानादिलक्षणस्य क्रिया निष्पत्तिस्तत्र सामर्थ्यात् द्रव्यपर्यायात्मकस्यैव वस्तुनोऽर्थक्रियार्थसमर्थत्वादित्यर्थः ॥ ३२ ॥ यदि नामैवं ततः किमित्याह — ॥ तल्लक्षणत्वाद्वस्तुनः ॥ १-१-३३ ॥ तदर्थक्रियासामर्थ्य लक्षणमसाधारणं रूपं यस्य तत्तल्लक्षणं तस्य १ तत्त्वार्थाधिगमसूत्र ५-२९| २ छाया - उत्पद्यते वा विगच्छति ( नश्यति) वा ध्रुवयति वा । ३ संमतितर्क तृतीयकाण्डगाथा ४९ ।

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136