Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
मीमांसा ]
सूत्र १-१-२६ संन्दंशायोगोलकवत् ज्ञानार्थयोः कश्चिद ग्राह्यग्राहकभाव इति. मतम् । "भिन्नकालं कथं ग्राह्यमिति चेद् ग्राह्यतां विदुः । हेतुत्वमेव युक्तिज्ञा ज्ञानाकारार्पणक्षमम् । इति वचनात् ।तर्हि सर्वज्ञज्ञानस्य वार्तमानिकार्थविषयत्वं न कथंचिदुपपद्यते । वार्तमानिकक्षणस्याजनकत्वात् । अजनकस्य चाग्रहणात् । स्वसंवेदनस्य च स्वरूपाजन्यत्वे कथं ग्राहकत्वं स्वरूपस्य वा कथं ग्राह्यत्वमिति चिन्त्यम् । तस्मात् स्वसामग्रीप्रभवयोः प्रकाशघटयोरिव ज्ञानार्थयोः प्रकाश्यप्रकाशकभावसम्भवान्न ज्ञाननिमित्तत्वमर्थालोकयोरिति स्थितम् । नन्वर्थाजन्यत्वे ज्ञानस्य कथं प्रतिकर्मव्यवस्था । तदुत्पत्तितदाकारताभ्यां हि सोपपद्यते । तस्मादनुत्पन्नस्यातदाकारस्य च ज्ञानस्य सर्वान् प्रत्यविशेषात् । नैवम् । तदुत्पत्तिमन्तरेणाप्यावरणक्षयोपशमलक्षणयोग्यतयैव प्रतिनियतार्थप्रकाशकत्वोपपत्तेः । तदुत्पतावपि च योग्यतावश्याश्रयणीया । अन्यथाशेषार्थसान्निध्येऽपि कुतश्चिदेवार्थात् कस्यचिदेव ज्ञानस्य जन्मेति कौतस्कुतोऽयं विभागः। तदाकारता त्वर्थाकारसङ्क्रान्त्या तावदनुपपन्ना । अर्थस्य निराकारत्वप्रसङ्गात् । अर्थेन च मूर्तेनामूर्तस्य ज्ञानस्य कीदृशं सादृश्यमित्यर्थविशेषग्रहणपरिणाम एव साभ्युपेया । ततः- "अर्थेन घट्यत्येनां नहि मुक्त्वाऽर्थरूपताम् ।” इति यत्किञ्चिदेतत् । अपि च व्यस्ते समस्ते चैते ग्रहणकारणं स्याताम् । यदि व्यस्ते तदा कपालाद्यक्षणो घटान्त्यक्षणस्य जलचन्द्रो वा नभश्चन्द्रस्य ग्राहकः पामोति । तदुत्पत्तेस्तदाकारत्वाच्च । अथ समस्ते तर्हि घटोत्तरक्षणः पूर्वघटक्षणस्य ग्राहकः प्रसञ्जात । ज्ञानरूपत्वे सत्येते ग्रहणकारणमिति चेत् । तर्हि समानजातीयज्ञानस्य समनन्तरपूर्वज्ञानग्राहकत्वं प्रसज्येत । तन्न योग्यतामन्तरेणान्यद् ग्रहणकारणं पश्यामः ॥२६॥
१ सन्दंश इति तप्तायोग्राहकः कारस्थोपकरणविशेषः ।

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136